मण्डूर
मत
मण्ड्
मडि भूषायाम्
गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- मण्डति
अर्थ−
१. सजाउनु, अलङ्कृत गर्नु ।
कृदन्तरूपमाला
- 1“मडि भूषायाम्” 2 ‘भूषार्थे मण्डतीति स्यात्, तत्र मण्डयतीति णौ।
- 3 इति देवः।
- मण्डकः-ण्डिका, मण्डकः-ण्डिका, मिमण्डिषकः-षिका, मामण्डकः-ण्डिका;
- इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककण्टतिवत् 4 ज्ञेयानि।
- अस्य 5 ताच्छीलिके युचि-- 6 मण्डनः 7 इति रूपमिति विशेषः।
- 8 इत्नुच्प्रत्यये, ‘अयामन्ताल्वाय्येत्न्विष्णुषु’ 9 इति णेरयादेशे च रूपमेवम्। मण्डयित्नुः।
प्रासङ्गिक्यः
मडि हर्षे च
गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- मण्डयति–ते
अर्थ−
१. अलङ्कृत गर्नु, सजाउनु,
२. आनन्दित हुनु ।
कृदन्तरूपमाला
- 1“मडि भूषायाम्, हर्षे च” 2 3 “-- ‘मडि भूषायाम्’ इति भूवादौ पाठादेव मण्डति इति सिद्धेः, अस्येदित्त्वं नुम्मात्रार्थम्, न तु णिज्विकल्पार्थम्;
- तेन हर्षे मण्डति इति न भवति।” इति मा।
- धा।
- वृत्तिः।
- क्वचित् कोशे अत्र ‘हर्षे च’ इति न पठ्यते।
- पाठ- शुद्धिरत्र कीदृशीति न विद्मः। ‘भूषार्थे मण्डतीति स्यात्, तत्र मण्डयतीति णौ।
- 4 इति देवः।
- मण्डकः-ण्डिका, मिमण्डयिषकः-षिका;
- इत्यादीनि सर्वाण्यपि रूपाणि चौरादि- ककुण्ठयतिवत् 5 ज्ञेयानि।
प्रासङ्गिक्यः
मडि विभाजने
गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- मण्डते
अर्थ−
१. अलग गर्नु, विभाजन गर्नु ।
कृदन्तरूपमाला
- 1“मडि विभाजने” 2 3 धातुपाठे ‘वडि विभाजने;
- मडि च’ इति पाठ्यते।
- तत्र ‘वडि मडि विभा- जने’ इत्येकदैव पठितव्ये पृथक् सूत्रकरणात् अर्थान्तरेऽपि मडिधातुर्वर्तते इति क्षीरस्वाम्यादयः प्रतिपादयन्ति।
- तद् यथा मण्डः = रसाग्रम्।
- अत्र तण्डुला- दीनां पचनावसरे क्वथनानन्तरं य ऊर्ध्वं रसस्यावरणरूपेणाविर्भावः स रसाग्रमि- त्युच्यते;
- अत्रापि धातोरस्य वृत्तिरित्यर्थः।
- एवम्, मण्डूरम् 4 मण्डलम्, मण्डपः इत्यादिष्वप्यस्य धातोरर्थान्तरवृत्तिर्ज्ञेया।
- काशकृत्स्न- धातुपाठीयव्याख्यायां 5 ‘वडि मडि वेष्टने’ इति पट्यते इति क्षी टीका 6।
- “नन्दी तु ‘मडि वेष्टने’ इति पठति।” इति धातुवृत्तिः।
- परं तु क्षीरतरङ्गिण्यां-- “नन्दी तु ‘वटि विभाजने, वडि वेष्टने’ इति भङ्ग्या पठति।” इत्येव दृश्यते।
- ईदृशस्थलेषु शुद्धपाठः कीदृश इति ग्रन्थैर्निर्धारयितुं न शक्यते।
- सर्वथा मडिधातुरनेकार्थक इति सारः। ‘भूषार्थे मण्डतीति स्यात् तत्र मण्डयतीति णौ।
- मण्डते वेष्टने…।।’ 7 इति देवः।
- मण्डकः-ण्डिका, मण्डकः-ण्डिका, मिमण्डिषकः-षिका, मामण्डकः-ण्डिका;
- इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककण्ठतिवत् 8 ज्ञेयानि।
- 9 मण्डिता, 10 इत्यूकण्प्रत्ययः।
- मण्डते क्षितिमिति मण्डूकः = भेकः। मण्डूकः, 11 कलप्रत्यये रूपमेवम्।
- मण्ड्यते = वेष्ट्यते इति मण्डलम् = परिवारः। मण्डलम्, इत्यादीन्यस्माद् भवन्तीति विशेषः।
- 12 मण्डितः।
प्रासङ्गिक्यः