शब्दकल्पद्रुमः
शौचेयः || पुं, (शौचेन वस्त्रादिशुचित्वेन व्यवहर- तीति । शौच + ढक् ।) रजकः । इति शब्द- रत्नावली ॥