शब्दकल्पद्रुमः
शौचिकः || पुं, (शौचं गृहादेः शुचिता कार्य्यत्वे- नास्त्यस्येति । शौच + ठन् ।) वर्णसङ्करविशेषः । यथा, — “कैवर्त्तस्य च कन्यायां शौण्डिकादेवशौचिकः ॥” इति पराशरपद्धतिः ॥