वाचस्पत्यम्
शौटीर || पु० शौट—ईरन् । १ त्यागिनि २ वीरे च ३ गर्वान्विते त्रि० सि० कौ० ।
शब्दकल्पद्रुमः
शौटीरः || पुं, (शौटतीति । शौट गर्व्वे + “कॄशॄपॄ कटिपटिशौटिभ्यः ईरन् ।” उणा० ४ । ३० । इति ईरन् ।)
त्यागी । वोरः । इत्युणादिकोषः ॥ गर्व्वान्विते, त्रि । इति सिद्धान्तकौमुद्यामुणादि- वृत्तिः ॥ (यथा, महाभारते । १२ । ८३ । ४३ । “सन्तुष्टः सम्मतः सत्यः शौटीरो द्वेष्यपापकः । मन्त्रवित् कालवित् शूरः समन्त्रं श्रोतुमर्हति ॥”