वाचस्पत्यम्
शौड || गर्वे भ्वा० पर० सक० सेट् ऋदित् चङि न ह्रस्वः । शौडति अशीडीत् ।
शब्दकल्पद्रुमः
शौड || ऋ गर्व्वे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् ।) चतुर्द्दशस्वरी । ऋ, अशु- शौडत् । इति दुर्गादासः ॥