संस्कृत-शब्दकोशः

मण्डूर मत

मण्ड्

मडि भूषायाम्


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- मण्डति

अर्थ−
१. सजाउनु, अलङ्कृत गर्नु ।

कृदन्तरूपमाला

  • 1“मडि भूषायाम्” 2 ‘भूषार्थे मण्डतीति स्यात्, तत्र मण्डयतीति णौ।
  • 3 इति देवः।
  • मण्डकः-ण्डिका, मण्डकः-ण्डिका, मिमण्डिषकः-षिका, मामण्डकः-ण्डिका;
  • इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककण्टतिवत् 4 ज्ञेयानि।
  • अस्य 5 ताच्छीलिके युचि-- 6 मण्डनः 7 इति रूपमिति विशेषः।
  • 8 इत्नुच्प्रत्यये, ‘अयामन्ताल्वाय्येत्न्विष्णुषु’ 9 इति णेरयादेशे च रूपमेवम्। मण्डयित्नुः।

प्रासङ्गिक्यः

  • ↑ (१२०८)
  • ↑ (१-भ्वादिः-३२१। अक। सेट्। पर।)
  • ↑ (श्लो। ८४)
  • ↑ (१४६)
  • ↑ [पृष्ठम्०९९२+ ३०]
  • ↑ १। तच्छीलादिषु कर्तृषु ‘क्रुधमण्डार्थेभ्यश्च’ (३-२-१५१) इति युच्प्रत्ययः। मण्डार्थाः = भूषणार्थका धातवः।
  • ↑ आ। ‘कुर्वन्ति कोपनं तारा मण्डना गगनस्य माम्।।’ भ। का। ७। १६।
  • ↑ २। ण्यन्तात् औणादिके [द। उ। १-१४०]
  • ↑ (६-४-५५)


मडि हर्षे च


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- मण्डयति–ते

अर्थ−
१. अलङ्कृत गर्नु, सजाउनु,
२. आनन्दित हुनु ।

कृदन्तरूपमाला

  • 1“मडि भूषायाम्, हर्षे च” 2 3 “-- ‘मडि भूषायाम्’ इति भूवादौ पाठादेव मण्डति इति सिद्धेः, अस्येदित्त्वं नुम्मात्रार्थम्, न तु णिज्विकल्पार्थम्;
  • तेन हर्षे मण्डति इति न भवति।” इति मा।
  • धा।
  • वृत्तिः।
  • क्वचित् कोशे अत्र ‘हर्षे च’ इति न पठ्यते।
  • पाठ- शुद्धिरत्र कीदृशीति न विद्मः। ‘भूषार्थे मण्डतीति स्यात्, तत्र मण्डयतीति णौ।
  • 4 इति देवः।
  • मण्डकः-ण्डिका, मिमण्डयिषकः-षिका;
  • इत्यादीनि सर्वाण्यपि रूपाणि चौरादि- ककुण्ठयतिवत् 5 ज्ञेयानि।

प्रासङ्गिक्यः

  • ↑ (१२०९)
  • ↑ (१०-चुरादिः-१५८७। सक। सेट्। उभ।)
  • ↑ [अ]
  • ↑ (श्लो। ८४)
  • ↑ (२१०)


मडि विभाजने


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- मण्डते

अर्थ−
१. अलग गर्नु, विभाजन गर्नु ।

कृदन्तरूपमाला

  • 1“मडि विभाजने” 2 3 धातुपाठे ‘वडि विभाजने;
  • मडि च’ इति पाठ्यते।
  • तत्र ‘वडि मडि विभा- जने’ इत्येकदैव पठितव्ये पृथक् सूत्रकरणात् अर्थान्तरेऽपि मडिधातुर्वर्तते इति क्षीरस्वाम्यादयः प्रतिपादयन्ति।
  • तद् यथा मण्डः = रसाग्रम्।
  • अत्र तण्डुला- दीनां पचनावसरे क्वथनानन्तरं य ऊर्ध्वं रसस्यावरणरूपेणाविर्भावः स रसाग्रमि- त्युच्यते;
  • अत्रापि धातोरस्य वृत्तिरित्यर्थः।
  • एवम्, मण्डूरम् 4 मण्डलम्, मण्डपः इत्यादिष्वप्यस्य धातोरर्थान्तरवृत्तिर्ज्ञेया।
  • काशकृत्स्न- धातुपाठीयव्याख्यायां 5 ‘वडि मडि वेष्टने’ इति पट्यते इति क्षी टीका 6।
  • “नन्दी तु ‘मडि वेष्टने’ इति पठति।” इति धातुवृत्तिः।
  • परं तु क्षीरतरङ्गिण्यां-- “नन्दी तु ‘वटि विभाजने, वडि वेष्टने’ इति भङ्ग्या पठति।” इत्येव दृश्यते।
  • ईदृशस्थलेषु शुद्धपाठः कीदृश इति ग्रन्थैर्निर्धारयितुं न शक्यते।
  • सर्वथा मडिधातुरनेकार्थक इति सारः। ‘भूषार्थे मण्डतीति स्यात् तत्र मण्डयतीति णौ।
  • मण्डते वेष्टने…।।’ 7 इति देवः।
  • मण्डकः-ण्डिका, मण्डकः-ण्डिका, मिमण्डिषकः-षिका, मामण्डकः-ण्डिका;
  • इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककण्ठतिवत् 8 ज्ञेयानि।
  • 9 मण्डिता, 10 इत्यूकण्प्रत्ययः।
  • मण्डते क्षितिमिति मण्डूकः = भेकः। मण्डूकः, 11 कलप्रत्यये रूपमेवम्।
  • मण्ड्यते = वेष्ट्यते इति मण्डलम् = परिवारः। मण्डलम्, इत्यादीन्यस्माद् भवन्तीति विशेषः।
  • 12 मण्डितः।

प्रासङ्गिक्यः

  • ↑ (१२०७)
  • ↑ (१-भ्वादिः-२७२। सक। सेट्। आत्म।)
  • ↑ [अ]
  • ↑ (= लोहमलम्)
  • ↑ (कन्नडभाषामय्यां)
  • ↑ (पृ। ४१)
  • ↑ (श्लो। ८४)
  • ↑ (१४९)
  • ↑ १। ताच्छीलिके तृनि रूपमेवम्। ‘क्रुधमण्डार्थेभ्यश्च’ (३-२-१५१) इत्यत्र युज्विधौ भूषर्णार्थकस्यैव मण्डधातोर्ग्रहणमिति वृत्त्यादिषु प्रतिपादितत्वादत्र न युजिति ज्ञेयम्। स्पष्टमिदं मा। धा। वृत्तौ।
  • ↑ २। ‘शलिमण्डिभ्यामूकण्’ [द। उ। ३-४७]
  • ↑ ३। औणादिके [द। उ। ८-१०७]
  • ↑ आ। ‘प्रहुण्डितानैक्षत चारुकुण्डलान् प्रवण्डितार्थान् अविमण्डिताशयान्।’ धा। का। १। ३६।



Correction: