वाचस्पत्यम्
शौरि || पु० शूरस्य यादवभेदस्य वसुदेवस्य सूर्य्यस्य वा अ- षत्यम् इञ् । १ विष्णौ २ शनैश्चरे च अमरः ।
शब्दकल्पद्रुमः
शौरिः || पुं, (शूरस्यापत्यमिति । शूर + इञ् ।)
विष्णुः । (यथा, आनन्दलहर्य्याम् २ । “तनीयांसं पांशु तव चरणपङ्केरुहभवं विरिञ्चिः सञ्चिन्वन् विरचयति लोकानविकलम् वहत्येनं शौरिः कथमपि सहस्रेण शिरसां हरः संक्षुभ्यैनं भजति भसितोद्धूननविधिम् ॥”)
शनैश्चरग्रहः । इत्यमरभरतौ ॥ (शूरवंशीय- मात्रे । वसुदेवः । यथा, भागवते । ३ । १ । २६ । “क्वचित् कुरूणां परमः सुहृन्नो भामः स आस्ते सुखमङ्गशौरिः ॥” बलदेवः । यथा, महाभारते । ५ । ७ । २५ । “ततोऽभ्ययाद्भीमबलो रौहिणेयं महाबलम् । सर्व्वञ्चागमने हेतुं स तस्मै संन्यवेदयत् । प्रत्युवाच ततः शौरिर्धार्त्तराष्ट्रमिदं वचः ॥” कृष्णः । यथा, भागवते । १ । १० । ३३ । “अथ दूरगतान् शौरिः कौरवान् विरहा- तुरान् । संनिवर्त्त्य दृढं स्निग्धान् प्रायात् स्वनगरीं प्रियैः ॥”)