वाचस्पत्यम्
शौल्विक || पुंस्त्री० शुल्वः ताम्रं तन्मयपात्रादि पण्यमस्य ठक् । कांस्यकारे (कासारी) जातिभेदे अमरः स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
शौल्विकः || पुं, कंसकारः । काँसारि इति भाषा । तत्पर्य्यायः । ताम्रकुट्टकः २ । इत्यमरः ॥ काम- न्दमी ३ कांस्यकारः ४ । इति जटाधरः ॥ ताम्रिकः ५ ताम्रकारकः ६ । इति शब्दरत्ना- वली ॥