संस्कृत-शब्दकोशः

श्मशानालयवासिनी श्मश्रुमुखी

श्मश्रु

वाचस्पत्यम्

श्मश्रु ||‍ न० श्म पुंसुखं श्रूयते लक्ष्यतेऽनेन श्रु—ड् । गुरुपसु- खस्थे लोमसङ्घे अमरः । “केशामश्रुधारयतामग्र्या भवति सन्ततिः” शु० त० ।


शब्दकल्पद्रुमः

श्मश्रु || स्त्री (श्म मुखं श्रयति आश्रयतीति । श्म + श्रि + “श्मनि श्रयतेर्डुम् ।” उणा० ५ । २८ । डुन् ।)
पुंमुखे वर्द्धितलोम । इत्यमरः ॥ दाडी इति भाषा ॥ पुंमुखे पुरुषास्ये तेषां वृद्धौ सत्यां तल्लोम श्मश्रु उच्यते । श्मन्निति मुख नामेति स्मुतिः श्मनि मुखे श्रूयते उपलभ्यते श्मश्रु नाम्नाति डुः श्मश्रु क्लीवमुदन्तम् । श्म मुखं श्रयति श्मनः श्रयतेर्डुन्निति डुनि श्मश्रु नान्तमित्यन्ये । इति भरतः ॥ * ॥
तस्य श्रुभा- शुभलक्षणं यथा, —
“निस्नं वक्त्रमपुत्त्राणां कृपणानाञ्च ह्रस्वकम् । संपूर्णं भोगिनां कान्तं श्मश्र स्निग्धं शुभं मृदु ॥ संहतं चास्फु टिताग्रं रक्तश्मश्रुश्च चौरकः । रक्ताल्पपरुषश्मश्रुकर्णाः स्युः पापमृत्यवः ॥” इति गारुडे ६६ अध्यायः ॥ * ॥
क्रोधार्त्तस्यावर्त्तनं यथा, — मार्कण्डेय उवाच । “इति प्रतिज्ञाय तदा नरिष्यन्तसुतो दमः । कोपामर्षविवृत्ताक्षः श्मश्रु मावर्त्त्य पाणिना ॥ हा हतोऽस्मीति पितरं ध्यात्वा दैवं विनिन्द्य च । प्रोवाच मन्त्रिणः सर्व्वानानिनाय पुरोहितम् ॥” इति मार्कण्डेयपुराणे शेषाध्यायः ॥ * ॥
अस्य धारणफलं यथा । दानधर्म्मे । “केशश्मश्रु धारयतामग्र्या भवति सन्ततिः ॥” * तस्य क्षौरक्रमो यथा । वराहपुराणम् । “श्मश्रु कर्म्म कारयित्वा नखच्छेदमनन्तरम् ।” गोभिलः । “केशश्मश्रुलोमनखानि वापयीत शिखावर्जम ।” इति शुद्धितत्त्वम् ॥



Correction: