संस्कृत-शब्दकोशः

श्योणाक श्योमाक

श्योनाक

शब्दकल्पद्रुमः

श्यो(णा)नाकः || पुं, (श्यायते इति । श्यै ङगतौ + पिणाकादश्चेति निपातनात् साधुः ।)
वृक्ष- विशेषः । शोनागाछ इति भाषा । तत्पर्य्यायः । मण्डूकपर्णः २ पत्रोर्णः ३ नटः ४ कट्वङ्गः ५ टुण्टुकः ६ शुकनासः ७ ऋक्षः ८ दीर्घवृन्तः ९ कुटन्नटः १० शोणकः ११ अरलुः १२ । इत्य- मरः ॥ स्योनाकः १३ । इति भरतः ॥ शोणः १४ अवटुः १५ दीर्घवृन्दकः १६ । इति शब्द- रत्नावली ॥ पृथुशिम्बिः १७ शल्लकः १८ । इति जटाधरः ॥ कटम्भरः १९ मयूरजङ्घः २० अरलुकः २१ प्रियजीवः २२ । तद्भेदा यथा, —
“श्योनाकः पृथुशिम्बोऽन्यो भल्लूको दीर्घवृन्तकः टेन्द्रकः पीतवृक्षश्च भूतसारो मुनिद्रुमः ॥ निःसारः फलवृन्ताकः पूतिपत्रो वसन्तकः । मण्डूकवर्णः पीताङ्गो जम्बुकः पीतपादकः ॥ वातारिः पीतकः शोणः कुलटश्च विरोचनः । भ्रमरेष्टो वह्निजङ्घो नेत्रनेत्रमिताभिधः ॥” पुस्तकान्तरे टेन्द्रकस्थाने टुण्टकः फलवृन्ताक- स्थाने फल्गुवृन्ताकः पीतपादकस्थाने पीत- पादपः कुलटस्थाने कुनटः वह्निजङ्घस्थाने वर्हि- जङ्घ इति च पाठः ॥ तयोर्गुणाः । “श्योनाकयुगलं तिक्तं शीतलञ्च त्रिदोषजित् । पित्तश्लेष्मातिसारघ्नं सन्निपातज्वरापहम् ॥” इति राजनिर्घण्टः ॥ * ॥
अपिच । “श्योनाकः शोषणश्च स्यान्नटकट्वङ्गटुण्टुकाः । मण्डूकपर्णपत्रोर्णशुकनासकुटन्नटाः ॥ दीर्घवृन्तोऽरलुश्चापि पृथुशिम्बः कटम्भरः । श्योनाको दीपनः पाके कटुकस्तुवरो हिमः ॥ ग्राही तिक्तोऽनिलश्ले ष्मपित्तक्राशामनाशनः । कटुकस्य फलं बालं रूक्षं वातकफायहम् ॥ हृद्यं कषायं मधुरं रोचनं लघु दीपनम् । गुल्मार्शः कृमिहृत् प्रोक्तं गुरु वातप्रकोपणम्” ॥ इति भावप्रकाशः ॥



Correction: