संस्कृत-शब्दकोशः

श्रद्दधान श्रद्धालु

श्रद्धा

वाचस्पत्यम्

श्रद्धा ||‍ स्त्री श्रत्-धा—अङ् । १ आदरे २ शुद्धौ शब्दच० । ३ गुरु- वेदान्तवाक्यादिषु विश्वामे वेदान्तसा० ४ स्प हायां ५ चित्त- प्रसादे “प्रत्ययो धर्मकार्येषु सा श्रद्धेत्यभिधीयते” इति स्मृत्युक्ते धर्मकार्येषु ६ प्रत्यये च अमरः । “प्रत्ययो धर्मकार्येषु तथा श्रद्धेत्युदाहृता । नास्ति ह्यश्रद्दधानस्य धर्मकृत्ये प्रयोजनम” इति स्मृतिः । सा त्रिविधा यथोक्तं गीतायाम् १७ अ० । “त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु । सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत! । श्रद्धा- मयाऽयं पुरुषो यो यच्छद्धः स एव सः । यजन्ते सा- त्त्विका देवान् यक्षरक्षांसि राजसाः । प्रेतान् भूतगणां- श्चान्ये यजन्ते ताममा जनाः” । “श्रुद्धापूर्वा इमे धर्माः श्रद्धा मध्यान्तःसंस्थिता । श्रद्धा नित्या प्रतिष्ठाश्च धर्माः श्नद्धैव कीर्त्तिताः । श्रुतिमात्ररसाः सूक्ष्माः प्रधान- पुरुषेश्वराः । श्रद्धामात्रेण गृह्यन्ते न करेण न चक्षुषा । कायक्लेशैर्न बहुभिस्तथैवार्थस्य राशिभिः । धर्मः संप्रा- प्यते सूक्ष्मः श्रद्धाहीनैः स्तुरेरपि । श्रद्धाधर्मः परः सूक्ष्मः श्रद्धा ज्ञानं हुतं तपः । श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धा सर्वमिदं जगत् । सर्वस्वं जीवितं वापि दद्या- दश्रद्धया यदि । नाप्नुयात्तत्फलं किञ्चित श्रद्धादानं ततो भवेत् । एवं श्रद्धान्वयाः सर्ये सर्वधर्माः पकी- र्त्तिताः । केशवः श्रद्धया गम्यो ध्येयः पूज्यश्च सर्वदा” वह्निपु० । देवलः “अर्थानामुदिते पात्रे श्रद्धया प्रति- षादनम् । दानमित्यमिनिर्दिष्ट व्याख्यानन्तस्य वक्ष्यते । उद्रित शास्त्रकथिते । देवलेनाम्याप्युक्ता यथा “सत्कृति श्चानसूया च सदा श्रद्धेति कीर्त्तिता” । अतएव भग वद्गातासु “अश्रद्धया हुतं दत्त तपस्तप्तं कृतन्तु यत् । असदित्युच्यते पार्थ! न च तत्प्रेत्य नेह च” । हरिवं० “अश्रात्रिय श्राद्धमधीतमव्रतं त्वदक्षिणं यज्ञमनृत्विजा हुतम् । अश्रद्धया दत्तमसस्कृत हविर्भागाः षडते तव दैत्यपुङ्गव!” शु० त० । थाज्ञवलक्यः “श्रद्धाविधिसमायुक्तं कर्म यत् क्रियते नृभिः । सुविशुद्धेन भावेन तदानन्त्याय कल्प्यते” यागियाज्ञवल्क्य “विधिहीनं भवेद्दुष्टं कृत- मश्रद्धया च यत । तद्धरन्त्यसुरास्तस्य मूढस्य दुष्कृतात्मनः”


शब्दकल्पद्रुमः

श्रद्धा || स्त्री (श्रद्धानमिति । श्रत् + धा + “षिद्- भिदादिभ्योऽङ् ।” ३ । ३ । १०४ । इत्यङ् । टाप् ।)
संप्रत्ययः । स्पृहा । इत्यमरः ॥ (यथा, रामायणे । २ । ३८ । २ । “चिच्छेद जीविते श्रद्धां धर्म्मे यशसि चात्मनः ॥” आदरः । शुद्धिः । इति शब्दरत्नावली ॥ शास्त्रार्थे दृढप्रत्ययः । यथा, —
“प्रत्ययो धर्म्मकार्य्येषु यथा श्रद्धेत्युदाहृता । नास्ति ह्यश्रद्दधानस्य धर्म्मकृत्ये प्रयोजनम् ॥” इति स्मृतिः ॥ (यथा, रघुः । २ । १६ । “बभौ च सा तेन सतां मतेन । श्रद्धेव साक्षात् विधिनोपपन्ना ॥”)
चेतसः प्रसादः । इति पातञ्चलभाष्ये वेदव्यासः ॥ सा त्रिविधा । यथा, — श्रीभगवानुवाच । “त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥ सत्त्वानुरूपा सर्व्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं पुरुषो यो यच्छद्धः स एव सः ॥ यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः । प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥” इति श्रीभगवद्गीतायां १७ अध्यायः ॥ * ॥
तस्याः प्रशंसा यथा, — ब्रह्मोवाच । “श्रद्धापूर्व्वा इमे धर्म्माः श्रद्धा मध्यान्त- संस्थिताः । श्रद्धा नित्या प्रतिष्ठाश्च धर्म्माः श्रंद्धैव कीर्त्तिताः ॥ श्रुतिमात्ररसाः सूक्ष्माः प्रधानपुरुषेश्वराः । श्रद्धामात्रेण गृह्यन्ते न करेण न चक्षुषा ॥ कायक्लेशैर्न बहुभिस्तथवार्थस्य राशिभिः । धर्म्मः संप्राप्यते सूक्ष्मः श्रद्धाहीनैः सुरैरपि ॥ श्रद्धा धर्म्मः परः सूक्ष्मः श्रद्धा ज्ञानं हुतं तपः । श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धा सर्व्वमिदं जगत् ॥ सर्व्वस्वं जीवितं वापि दद्यादश्रद्धया यदि । नाप्नुयात्तत्फलं किञ्चित् श्रद्धादानं ततो भवेत् ॥ एवं श्रद्धान्वयाः सर्वे सर्वधर्म्माः प्रकीर्त्तिताः । केशवः श्रद्धया गम्यो ध्येयः पूज्यश्च सर्वदा ॥” इति वह्निपुराणे धेनुदानमाहात्म्याध्यायः ॥ देवलः । “अर्थानामुदिते पात्रे श्रद्धया प्रतिपादनम् । दानमित्यभिनिर्दिष्टं व्याख्यानन्तस्य वक्ष्यते ॥” उदिते शास्त्रकथिते । श्रद्धा देवलोक्ता यथा, “सत्कृतिश्चानसूया च सदा श्रद्धेति कीर्त्तिता ॥” अतएव भगवद्गीतासु । “अश्रद्धया हुतं दत्तं तपस्तप्तं कृतन्तु यत् । असदित्युच्यते पार्थ न च तत् प्रेत्य नेह च ॥” हरिवंशे बलिं प्रति भगवद्वाक्यम् । अश्रोत्रियं श्राद्धमधीतमव्रतं त्वदक्षिणं यज्ञमनृत्विजा हुतम् । अश्रद्धया दत्तमसंस्कृतं हवि- र्भागाः षडेते तव दैत्यपुङ्कव ॥” इति शुद्धितत्त्वम् ॥ याज्ञवल्क्यः । “श्रद्धाविधिसमायुक्तं कर्म्म यत् क्रियते नृभिः । सुविशुद्धेन भावेन तदानन्त्याय कल्प्यते ॥” योगियाज्ञवल्क्यः । “विधिहीनं भवेद्दुष्टं कृतमश्रद्धया च तत् । तद्धरन्त्यसुरास्तस्य मूढस्य दुष्कृतात्मनः ॥” इति प्रायश्चित्ततत्त्वम् ॥



Correction: