वाचस्पत्यम्
श्रद्धालु || स्त्री श्रद्धा + आलुच् । १ स्पृहावत्यां स्त्रियां २ श्रद्धायुक्ते त्रि० ।
शब्दकल्पद्रुमः
श्रद्धालुः || स्त्री (श्रद्दधातीति । श्रत् + धा + स्पृहि गृहिपतिदयिनिद्रेति” । ३ । २ । १५८ । इति आलुच् ।)
दोहदवती । श्रद्धायुक्ते, त्रि । इत्य- मरः ॥ (यथा, भागवते । ३ । ८ । १० । “सोऽहं तवैतत् कथयामि वत्स श्रद्धालवे नित्यमनुव्रताय ॥”)