वाचस्पत्यम्
श्रम || तपसि, आयास खटे च अक० भ्वा० शमादि० पर० सेट् उदित् क्त्वा वेट् । श्राम्यति इरित् अश्रमत् अश्रमीत् । श्रान्त्वा श्र मत्वा श्रान्तः ।
वाचस्पत्यम्
श्रम || पु० श्रम—घञ् न वृद्धि । १ तपसि २ स्वेदे ३ आयासे ४ शस्त्राभ्यासे च हेमच० ।
शब्दकल्पद्रुमः
श्रमः || पुं, (श्रम + घञ् । नोदात्तोपदेशस्येति वृद्ध्यभावः ।)
तपः । खेदः । इति श्रमधात्वर्थ- दर्शनात् ॥ श्रान्तिः । तत्पर्य्यायः । क्लमः २ । क्लेशः ३ परिश्रमः ४ प्रयासः ५ आयासः ६ व्यायामः ७ । इति हेमचन्द्रः ॥ क्लमथः ८ । इत्यसरः ॥ (यथा, भागवते । ५ । १९ । १४ । “यथैहिकामुष्मिककामलम्पटः सुतेषु दारेषु धनेषु चिन्तयन् । शङ्केत विद्वान् कुकलेवरात्ययात् यस्तस्य यत्नः श्रम एव केवलम् ॥”)
शस्त्राभ्यासः । तत्पर्य्यायः । स्वुरली २ योग्यः ३ अभ्यासः ४ । इति च हेमचन्द्रः ॥