संस्कृत-शब्दकोशः

श्रम श्रमणा

श्रमण

वाचस्पत्यम्

श्रमण ||‍ पु० श्रम—युच् । १ यतिभेदे २ भिक्षाजीविनि त्रि० । ३ जटामांस्यां ४ मुण्ड्यीव्यां ५ शवरीभेदे ६ सुदर्शनायां स्त्रियां च स्त्री मेदि० ।


शब्दकल्पद्रुमः

श्रमणः || पुं, (श्राम्यति तपस्यतीति । श्रम + स्यु ।)
यतिविशेषः । इति मेदिनी ॥ (स तु बौद्व- सन्न्यासी ।)
तत्पर्य्यायः । “मुक्तिर्मोक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः । वाचंयमो व्रती साधुरनगार ऋषिर्मुनिः ॥ निर्ग्रन्थो भिक्षुरस्य स्यं तपोयोगशमादयः ।” इति हेमचन्द्रः ॥ (यथा, रामायणे । १ । १४ । १२ । “तापसा भूञ्जते चापि श्रमणाश्चैव भुञ्जते ॥”)
निन्द्यजीविनिं त्रि, । इति मेदिनी ॥



Correction: