वाचस्पत्यम्
श्रवस् || न० श्रूयतेऽनेन श्रु—करणे असि । १ कर्णे अमरः । कर्मणि असि । २ कीर्त्तौ ।
शब्दकल्पद्रुमः
श्रवः || [स्] क्ली, (श्रूयतेऽनेनेति । श्रु + “सर्व- धातुभ्योऽसुन् ॥” इत्यसुन् ।)
कर्णः । इत्यमरः ॥ (अन्नम् । इति निघण्टुः । २ । ७ ॥ यथा, ऋग्- वेदे । ३ । १९ । ५ । “अधिश्रवांसि धेहि नस्तनूषु ॥” धनम् । इति निघण्टुः । २ । १० ॥ यशः । यथा, भागवते । ४ । १७ । ६ । “श्रवः सुश्रवसः पुण्यं सर्व्वदेहकथाश्रयम् ॥” शब्दः । यथा, तत्रैव । ५ । ११ । ९ । “गन्धाकृति स्पर्शरसश्रवांसि विसर्गवत्यर्त्त्यभिजल्पशिल्पाः ॥”)