वाचस्पत्यम्
श्रवाय्य || पु० श्रु—आय्य । यज्ञियपशौ सि० कौ० । शब्दकल्प- द्रुमे श्रवाप्य इति पाठ कल्पनं प्रामादिकमेव ।
शब्दकल्पद्रुमः
श्रवाय्यः || पुं, (श्रु श्रवणे + “श्रुदक्षिस्पृहिगृहिभ्य आय्यः ।” उणा० ३ । ९६ । इति आय्यः ।)
बलियोग्यपशुः । यज्ञियपशुः । इति सिद्धान्त- कौमुदी ॥ (श्रवणीये, त्रि । यथा, ऋग्वदे । १ । २७ । ८ । “वाजो अस्ति श्रवाय्यः ॥” “श्रवाय्यः श्रवणीयो वाजोऽस्ति बलविशेषो- ऽस्ति ।” इति तद्भाष्यम् ॥)