श्रविष्ठा
श्रव्य
श्रविष्ठाज
वाचस्पत्यम्
श्रविष्ठाज || पु० श्रविष्ठायां श्रवणनक्षत्रे जायते जन—ड । बुधग्रहे त्रिका० । भगदैवतशब्दे ४६३१ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
श्रविष्ठाजः || पुं, (श्रविष्ठायां जायते इति । जन् + डः ।)
बुधग्रहः । इति त्रिकाण्डशेषः ॥ तत्र जाते, त्रि ॥