शब्दकल्पद्रुमः
श्रव्यः || त्रि श्रोतव्यः । श्रवणार्हवाक्यादिः । श्रुधातो र्यप्रत्ययेन निष्पन्नः ॥ (यथा, राधातन्त्रे । ९ । ३ । “यत्श्रुत्वा परमेशानि श्रव्यमन्यन्न रोचते ॥”)
श्रा, ल स्वेदे । इति कविकल्पद्रुमः ॥ अदा०- पर०-अक०-अनिट् ।)
रेफयुक्तस्तालव्यादिः । ल, श्राति । इति दुर्गादासः ॥