संस्कृत-शब्दकोशः

श्राणा श्राद्धकर्त्तृ

श्राद्ध

वाचस्पत्यम्

श्राद्ध ||‍ न० श्रद्धा—हेतुत्वेनास्त्यस्य अण् । “श्रद्धया दीयते यस्मात् श्राद्धं तेन निगद्यते” इत्युक्ते पित्रादिभ्यः श्रद्धया देपे १ द्रव्ये । अस्त्यर्थे अण् । २ श्रद्धायुक्ते त्रि० । श्राद्धलक्षणं तत्प्रयोजनञ्च गयाश्राद्धादिपद्धतौ हेमाद्रि श्राद्धकल्पासुसारेणास्माभिः प्रदर्शितं यथा “सम्बोधनपदोपनीतान् पित्रादीन् चतुर्थ्यन्तपदेनोद्दिश्य पुत्त्रादिभिर्मन्त्रद्वारा श्रद्धयान्नादेर्दानं श्राद्धम् “अथैतन्मनुः आद्धशब्दं कर्म प्रोवाचेति” श्राद्धविवेकधृतापस्तम्बवच- नेन श्राद्धशब्दस्य कर्मसामान्यवचनतावगमात् “सस्कृतं व्यञ्जलाढ्यं च पयोदधिघृतान्वितम् । श्रद्धया दीयते यस्मात् तेन श्राद्धं निगद्यते” इति श्राद्धतत्त्वधृतपुलस्त्य- वचनेन श्रद्धाहेतुकदानरूपकर्मविशेषस्य श्राद्धपदार्थताव- नमाच्च । श्राद्धमिति शब्दो वाचको यस्य तत्कर्मेत्यर्थ इति श्राद्धवियेकः । तस्मिंश्च कर्मणि यागादाविन्द्रादी नामिव पित्रादेर्देवतात्वं तदुद्देशेन मन्त्रद्वारा द्रव्यत्या गात् । तथा च यागादौ मन्त्राहूता इन्द्रादयः शक्ति मात्रेण तत्तत्स्थले आविर्भूता यजमानत्यक्तद्रव्यदर्शनेन तृप्यन्तस्तेषाममीष्टफलं यथा साधयन्ति तथा श्राद्धेऽपि मन्त्राहूताः पित्रादयः समागताः पुत्त्रादित्यक्तद्रव्यभोगेन तृप्यन्तो विशिष्टफलप्रदा इत्येव कल्पनीयम् । किन्तु सर्वो हि लोकः सफले कर्मण्येव प्रवर्त्तते नाफले । तत्र यज्ञादौ यथा देवानां फलदातृत्वमेवं श्राद्धदेवानां पित्रा- दोनां फलदातृत्वे सम्भवत्येव श्राद्धस्य सफलत्वं भवेत्त- देव नोपपद्यते । तथा हि इन्द्रादयो हि देवाश्चेतना विशिष्टज्ञानक्रियाशक्तिमन्तो मन्त्रमात्राहूताः शक्तिविशे षेण यज्ञदेशे आविर्भवितुं शक्नुवन्ति आविर्भूय च यज्ञदत्तद्रव्यदर्शनमात्रेण तृप्यन्तो विशिष्टफलदानाय स- मर्थाः । नैवं पित्रादयो भवितुमर्हन्ति । ते हि स्वस्व- कर्मानुमारेण नानायोनिततया अतिविप्रकृष्टदेशस्थिताः विशिष्टशक्तिरहिताश्च कथं मन्त्रमात्राहूताः श्राद्धदेशे आगच्छेयुः । आगता वा कुतो न दृश्येयुः देवाना- मिव तेषामतीन्द्रिय भावात् दर्शनमात्रेण तृप्तेरभा- वाच्च । भोजनेनैव तेषां तृप्तिसम्भवाच्च भोजनमन्तरेण कथं तृप्तेयुः । अतूप्ताश्च कृतो वा फलं दद्युः । पश्वा- दिगता वा कुतो विशिष्टफलप्रदाः स्युः । अपरञ्च इह दत्तस्य चान्नादेरचेतनतया नेतृपुरुषाभावेनान्यत्र गमना- सम्भवः । श्राद्धदत्तद्रव्यस्य यथापूर्वमवस्थानान्न भोक्तृ- देशगमनमित्यनुमीयते । एवमिह दत्तेनान्नेनान्यत्र स्थि- तानां भोगस्तु नैव सम्भवी । पात्रीयब्राह्मणेन श्राद्धा- न्नस्य भोजनान्न पित्रादितृप्तिसम्भवः भोगतृप्त्योः सामा- नाधिकरण्यनियमात् । किञ्च देवयोनिगतानाममृतान्धसां मानुषयोग्येनान्नेन कथं तृप्तिः कथं वा पशुयोनिगतानां तृणाहारयोग्यानां तेन तृप्तिः । तेषां पश्वादिभावमापे- दुषां फलदातृत्वासम्भवस्तु विशिष्टशक्तेरभावात् सर्वानु- भवसिद्धः । एतेन “यथा गोषु प्रनष्टो वै वत्सो विन्दति लातरम् । एवं श्राद्धेऽन्नमुद्दिष्टं मन्त्रः प्रापयते पितॄन् । नामगोत्रं पितॄणान्तु प्रापकं हव्यकव्ययोः । नाममन्त्रै- स्तथोद्देशो भवान्तरगतानपि । प्राणिनः प्रीणयन्त्येते तदाहारत्वमागताः । देवो यदि पिता जातः शुभ- कर्मानुसारतः । श्राद्धान्नममृतं भूत्वा देवत्वेऽप्यनुगच्छति । दैत्यत्वे भोग्यरूपेण पशुत्वे च तृणं भवेत् । श्राद्धान्नं वायुरूपेण नागत्वेऽप्यनुगच्छति । पानं भवति यक्षत्वे गृध्रत्वे च तथामिषम् । दनुजत्वे तथा मांसं प्रेतत्वे रुधिरोदकम् । मानुषत्वेऽन्नपानादि नानाभोगरसं तथेति च” हेमाद्रिश्राद्धकल्पादिधृतमार्कण्डेयवचनैरिह दत्तान्नादेरेव मन्त्रशक्त्या विप्रकृष्टदेशनयनं पितृप्रा- प्तयोनियोग्यामृतादिरूपेण परिणामश्च कल्प्यते इ- त्यपि न विचारचारु अचेतनानामपि मन्त्राणां चेतन- धर्मकल्पनापि तदैव साधीयसी स्यात् यदि दत्तान्नादे- रिह यथापूर्वमवस्थितिर्न स्यात् स्याच्च पूर्वरूपान्यथा- भावः । तथा च एवमादिवचनानां स्तुत्यर्थवादपरताया अग्रे दर्शयिष्यमाणत्वान्नाधिककल्पना । किञ्च पात्र- ध्रह्मणेन भोगादिना विनष्टस्य वस्तुनः कथं स्थानान्तर- नयनं कथं वा तत्तदाहारतारूपेण परिणामः धर्मिणि सत्येव स्थानान्तरगमनादिसम्भवो न विनष्टस्यातः श्रा- द्धस्य कथं प्रयोजनवत्त्वमित्येवं स्थिते । उच्यते । ब्रा- ह्मणादिसम्प्रदानक्रियाया इव श्राद्धकर्मण एव स्वजन्य- युण्यद्वारा विशिष्टफलजनकता तत्र च कालान्तरभावितत्- तत्फलदानाय तत्कर्मसाक्षिणः परमेश्वरस्यैव तत्साध० नत्वम् । अतएव भगद्गीतायाम् “यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति । तस्यतस्याचलां श्रद्धां तामेव विदधान्यहम् । स तया श्रद्धया युक्तस्तस्यारा- धनमीहते । लभते च ततः कामान् मयैव विहितान् हि तान्” इति भक्तानां तत्तदिष्टोत्पादनस्य स्वकर्त्तृकत्वं भगवतोक्तम् । युक्तञ्चैतत् श्रुतिस्मृत्योरोश्वरानुज्ञास्वरूप- तया तत्तदर्थानुष्ठानेन तदाज्ञाप्रतिपालने ईश्वरस्य स- म्माननारूपा तृप्तिस्ततश्चाभीष्टलाभः । तथैवोक्तं गीता- याम् “स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते भरः । खकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु । यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । खकर्मणा तम- भ्यर्च्य सिद्धिं विन्दति मानवः” इति । स्वकर्मणा स्वस्ववर्णाश्रमविहितकर्मानुष्ठानेन, तम् परमेश्वरम् अभ्यर्च्य तदाज्ञाप्रतिपालनेन सम्मान्य तत्सम्मानेन च तत्कृतां सिद्धिम् तत्तदभीष्टसिद्धं लभते इति तदर्थः । अस्मिन् पक्षे च पित्रादीनां श्राद्धान्नादेर्वा न स्थानान्तरंगमनकल्पना । अथ वा देवदत्तादिशब्दस्य यथा न केवलं देहमात्रं, न बा जीवमात्रमर्थः किन्तु तत्तद्दे- हाभिसानी जीव एवार्थः । तथा पित्रादिशब्दस्य उत्पा- दकदेहाभिमानी केवलं जीवोऽपि नार्थः किन्तु वसु- रुद्रादित्यदेवाधिष्ठितमादृशजीव एवार्थः, “वसवः पिनरो ज्ञेया रुद्रा ज्ञेयाः पितामहाः । प्रपितामहाश्चादित्याः श्रुतिरेषा सनातनी । प्रेतानुद्दिस्य यत् कर्म क्रियते मा- नुषैरिह । तुष्यन्ति देवतास्तेन न प्रेताः पितरः स्मृताः” । इति श्राद्धकल्पधृतदेवलवचने पित्रादिपदानां पारिभा- षिकत्वोक्तेः । प्रेताः मृताः न पितरः न केवल पितृपदाभिधेयाः किन्तु तदधिष्ठितवसव एव पितृपदा- भिधेयास्त एव तुष्यन्वीत्यर्यः । अतएव श्राद्धकाले पित्रा- दीनां तेन तेन रूपेण ध्येयताऽग्रेहभिधास्यमानोपप- द्यते । एवञ्च वस्वादिदेवानामिन्द्रादिवत् विशिष्टशक्ति ज्ञानतम्पन्नतया सन्तमात्रावाहने यागादाविन्द्रादिवदाग- मनसम्भवाच्च त्यक्तद्रव्यदर्शनमात्रेण तृप्तिः, “न वै देवा अश्नन्ति पिवन्ति एतदेवामृतं दृष्ट्वा तृप्यन्तीति” छान्दो- ग्यवाक्यात् । अतएव भगवद्गीतायाम् “सह यज्ञाः प्रजाः सृष्टा पुरावाच प्रजापतिः । अनेन प्रसविष्य- ध्वमेष वोऽस्त्विष्टकामधक् । देवान् भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवा- पस्यथेति” प्रजाकृतयज्ञेन तृप्तनां देवानां यजमान- फलदातृत्वम् प्रजाः प्रति प्रजापतिवचनत्वेनोक्तम् । अनेन यज्ञेन देवान् भावयत तर्पयत ते च यज्ञत- र्पिता देवाः वः युष्मान् भावयन्तु तर्पयन्त्वित्यर्थः । यज्ञपदञ्च कर्ममात्रोपलक्षणम् । एवञ्च यथा काचित् गर्भिणी सुहृदा दत्तं दोहदं भुञ्जाना स्वयं तृप्यति स्या- श्रयं गर्भञ्च तर्पयन्ती दोहददातारमप्युपकरोति तथा वस्वादयोऽपि श्राद्धान्नदर्शनमात्रतृप्ताः स्वाधिष्ठितपित्रा- दिपुरुषान् तर्षयन्तः श्राद्धकर्त्तुरपीष्टदातारो भवन्ति । प्रागुक्तवचनजातेष्वपि मन्त्रशक्त्यान्नादेर्देशान्तरनयनकथ- नस्यापि स्वस्वकर्मानुसारेण पश्वादिभावापन्नपित्रादीनां तदुपभोगयोग्यान्नादितुल्यतृप्तिर्वस्वादिकृता तद्दिर्न भवती- त्येतत्परत्वश्राद्धप्रशसापरत्वयोः कल्पने न वैयर्थ्यम् । यत्र च काश्याविमरणेन पित्रादीनां मुक्तत्वम् तत्र वस्वा- दिमात्रस्यैव तृप्तिर्न विशिष्टस्य, विशेषणस्यासत्त्वे विशेष्य- स्यैव विशिष्टकारित्वात् कुण्डलविशिष्टस्य नरस्य कुण्ड- लापगमेऽपि मनुष्यकर्मकारित्वव्याहतिवत् । तथा च त एव तृप्ता विशिष्टफलं दद्युरिति सिद्धा श्राद्धस्यार्थवत्ता” । श्राद्धभेदाश्च विश्वामित्राद्युक्ताः प्रा० वि० दर्शिता यथा “नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं सपिण्डनम् । षार्वणञ्चेति विज्ञेयं गोष्ठ्यां शुद्ध्यर्थमष्टमम् । कर्माङ्गं नवम प्रोक्तं दैविकं दशमं स्मृतम् । यात्रास्वेकादशं प्रोक्तं पुष्ट्यर्थं द्वादशं स्मृतम्” । एतद्भविष्यपुराणे विवृ- तम् । यथा “अहन्यहनि यत् श्राद्धं तन्नित्यमभिधी- यते । वैश्वदेवविहोनं तदशक्तावुदकेन तु । एकोद्दिष्टन्तु यत् श्राद्ध तन्नैमित्तिकमुच्यते । तदप्यदैवं कर्त्तव्यमयु- ग्मानाशयेद्द्विजान् । कामाय तु हितं काम्यमभिप्रे- तार्थसिद्धये । पार्वणेन विधानेन तदप्युक्तं खगाधिप! । वृद्धौ यत् क्रियते श्राद्धं वृद्धिश्राद्धं तदुच्यते । सर्वं प्रदक्षिणं कार्य्यं पूर्वाह्णे तूपवीतिना । गन्धोदकतिलै- र्युक्तं कुर्य्यात् पात्रचतुष्टयम् । अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् । ये समाना इति द्वाभ्यामेतजूज्ञेयं सपिण्डनम् । नित्येन तुल्यं शेषं स्यादेकोद्दिष्टं स्त्रिया अपि । अमावास्यां यत् क्रियते तत् पार्वणमुदाहृतम् । क्रियते पर्वणि यत्तत् पार्वणमिति च स्थितिः । गोष्ठ्यां यत् क्रियते श्राद्धं गोष्ठोश्राद्धं तदुच्यते । बहूनां विदुषां सम्पत्सुखार्थं पितृतृप्तये । क्रियते शुद्धये यत्तु ब्राह्म- णानान्तु भाजनम् । शुद्ध्यर्थमिति तत् प्रोक्तं वैनतेय! मनीषिमिः । निषेककाले सोमे च सीमन्तोन्नयने तथा । ज्ञेयं पुंसवने चैव श्राद्धं कर्माङ्गमेव च । देवानुद्दिश्य यत् श्राद्धं तद्दैविकमिहोच्यते । हविष्येण विशिष्टेन सप्तभ्यादिषु यत्नतः । गच्छन् देशान्तरं यत्तु श्राद्धं कुर्य्यात्तु सर्पिषा । यात्रार्थसिति तत् प्रोक्तं प्रवेशे च न संशयः । शरीरोपचये श्राद्धमन्नोपचय एव च । पुष्ट्यर्थमेतद्विज्ञेयमौपचारिकमुच्यते” । वृह० “नित्य नैमित्तिकं काम्यं वृद्धिश्राद्धं तथैव च । पार्वणञ्चेति मनुना श्राद्धं पञ्चविधं स्मृतम्” । कूर्मपुराणे “अहन्यहनि नित्यं स्यात् काम्यं नैमित्तिकं पुनः । एकोद्दिष्टता विज्ञेयं वृद्धिश्राद्धञ्च पार्वणम् । एतत् पञ्चविञ्चं श्राद्धं मनुना परिकीर्त्तितम्” । स्वरूपतो द्दादशविधत्वेऽपि पञ्चविधविधानोपाधिभेदात् पञ्चथिधत्वं गोर्ष्ठाश्राद्धादीनां पार्वणकाम्यवृद्धिश्राद्धैरपृथग्विधानात् एतेष्ववान्तर्भाव इत्यभिप्रायः । सपिण्डीकरणस्याप्यं शतः पार्वणविधानादंशतएकोद्दिष्टविधेरुभयात्मकत्वात् न पृ- थक्त्वं नित्यपार्वणात् काम्यस्य देवताभेदात् पृथ- ग्विधानम् । वस्तुतः प्रपञ्चार्थमेव द्वादशविधत्वम् । युगा- द्यादिश्राद्धानामपि सत्त्वात् । यत्तु मत्स्यपुराणे “नित्यं नैमित्तिकं काम्यं त्रिविधं श्राद्धमुच्यते” । इति तत्र नित्यपदमुक्तार्थमेव नैमित्तिकपदमागन्तुकनिमित्तोत्पन्नत्वेन पार्वणैकोद्दिष्टयोः परिग्रहार्थम् । काम्यपदं दृष्टफलत्वेन तिथिश्राद्धादीनामभ्युदयस्य च ग्रहणार्थमित्यविरोधः । विष्णुना तु नित्यकाम्यरूपतया द्वैविध्यं वक्ष्यते तत्र नित्य- पदमावश्यकतया पार्वणैकोद्दिष्टयोरपि परिग्रहार्थम् । काम्यपदमनावश्यकार्थं सर्वमिदमुपाधिभेदादविरुद्धम्” । श्राद्धे विहिता देशाः प्रा० वि० दर्शिता यथा तत्र विष्णुः “पुष्करेष्वक्षयं श्राद्धं जपहोमतपांसि च” । “पुष्करे स्नातमात्रस्तु सर्वपापेभ्यः पूतो भवति” इत्यभि- धाय “ग्रचमयेषुतीर्थेषु सरिद्वरासु सङ्गमेषु प्रभवेषु पुलि- नेषु निकुञ्जेषु प्रस्रवणेषु उपवनेषु गोमययेनोपलिप्तेषु गृहेषु मनोज्ञेषु च” आहस्य । प्रभवोऽत्र नदीनामुत्- पत्तिदेशः सरिद्वरासु सङ्गमेषु चेति प्रस्तुत्य प्रभवेष्वित्यभि- धानात् । पुलिनं नदीतोयोत्थितप्रदेशः । निकुञ्जोलता- दिवेष्टितप्रदेशः प्रस्रवणं निर्झरः । उपवनं गृहवाटिका मनोज्ञं रमणीयम् । देबलः “श्राद्धस्य पूजितो देशो गया गङ्गा सरस्वती । कुरुक्षेत्रं प्रयागश्च निमिष पुष्क- राणि च । नदीतटेषु तीर्थेषु शैलेषु पुलिनेषु च । विविक्तेषु च तुष्यन्ति दत्तेनेह पितामहाः” । विविक्तं विजनम् । वृहस्पतिः “काङ्क्षन्ति पितरः पुत्रान्नरकापात- भीरवः । गयां यास्यति यः कश्चित् सोऽस्मान् सन्तार- थिष्यति । करिष्यति वृषोत्सर्गमिष्टापूर्त्तं तथैव च । प्रालयिष्यति वार्द्धक्ये श्राद्धं दास्यति चान्वहम् । गयायां धर्मपृष्ठे च सरसि ब्रह्मणस्तथा । गयाशीर्षेऽक्षयवटे पितृणां दत्तमक्षयम । धर्मारण्यं धर्मपृष्ठं धेनुकारण्य- मेव च । दृष्ट्वैतानि पितॄंश्चार्च्य वंशान् विंशतिमुद्धरेत्” । गयामुपादाय गयास्थानविशेषोपन्यासोऽधिकफलार्थः । इह श्राद्धदेशत्वेन कथिता नानादेशीयतीर्थविशेषस्वरूपवि- शेषास्तत्तद्देनिवासिभ्योऽवगन्तव्या अत्र पुष्करेष्यक्षयं श्राद्धमित्यादिविष्ण्वादिवाक्यैः सामान्यतस्तीर्थप्राप्तिनिमि- त्तेऽमावास्यादिश्राद्धे च प्राप्ते पुष्करादिदेशाख्यगुणफल- श्राद्धविधिः “गोदोहेनापः प्रणयेत् पशुकामस्येति” वत् न तु विशिष्टश्राद्धान्तरविधानं विधिगौरवापत्तेः अगत्या तु “मोमेन यजेतेत्यादौ” तथा । तथा मनुः “शुचिं देशं वि- विक्तञ्च गोमयेनोपलेपयेत् । दक्षिणाप्लवनञ्चैव प्रयत्ननोप- पादयेत् । अवकाशेषु चोक्षेषु नदीतीरेषु चैव हि । विवि- क्तेषु च तुष्यन्ति द्रत्तेन पितरः सदा” । अशुचिमवि- विक्तमदक्षिणाप्लवनं यत्रतः शुचित्वादिना उपपादयेत् । विविक्तं विजनं चोक्षेषु मनोज्ञेषु विविक्तेषु वनादिषु । यमः “दक्षिणाप्लवनं स्निग्धं विविक्तं शुभलक्षणम् । शुचिदेशं प्ररीक्ष्याशु गोमयेनोपलेपयेत् । आगारेषु विवि- क्तेषु तीर्थेषु च नदीष च । विविक्तेषु च तुष्यन्ति देशेषु पितरः सदा । पारक्ये भूमिभागे तु पितॄणां निर्वपेत्तु यः । तद्भूमिस्वामिपितृभिः श्राद्धकर्म विहन्यते । त- स्मात् श्राद्धानि देयानि पुण्येष्वायतनेषु च । नदीतीरेषु तीर्थेषु स्वभूमौ तु प्रयत्नतः । उपह्वरनितम्बेषु तथा पर्वतसानुषु । गोमयेनोपलिप्तेषु विविक्तेषु गृहेषु च” । स्निग्धं स्तिमितं विविक्तेषु देशेषु स्वभावतो वनादिषु । उपह्वरमत्र पर्वतान्तिकम्” । श्राद्धनिन्दितदेशास्तत्रोक्ता यथा विष्णु “न मृएच्छविषये श्राद्धं कुर्य्यान्न च गच्छेत्तथा । चातुर्वर्ण्यव्यवस्थानं यस्मिन् देशे न विद्यते । तं म्लेच्छदेशं जानीयादार्य्यावर्त्तमतः- परम्” । वायुपुराणे “त्रिशङ्कोर्वर्जयेद्देशं सर्वं द्वादशयो- जनम् । उत्तरेण महानद्या दक्षिणेन तु कीकदात् । देशस्त्रैशङ्कवोनाम श्राद्धकर्मणि गर्हितः । पारस्कराः कलिङाश्च सिन्धोरुत्तरमेव च । प्रनष्टाश्रमधर्माश्च देशावज्योः प्रयत्नतः” । पारस्कारादेशविशेषाः । कीक- टोमगधः । सिन्धुर्नदीविशेषः । व्रह्मपुराणे “परकाय- गृहे यस्तु स्वान् पितॄस्तर्पयेज्जडः । तद्भूमिस्वाभिन- स्तस्य हरन्ति पितरो बलात् । अग्रभागन्ततस्तेभ्यो दद्या- स्मूल्यञ्च जीवताम्” । गृह इति भूभागमात्रोपलक्षणं “पारक्ये भूमिसागे च” इति यमवचनात् स्वभूम्यभावे कथं श्राद्धमित्याह अग्रभागमिति श्राद्धीयद्रव्यस्येति तेभ्यस्तद्भूमिस्वामिपितृभ्य उत्सृज्य देयं जीवतां स्वा- मिनां मूल्यं वा देयम । यमः “अटव्यः पर्वताः पुण्या नद्यस्तीर्थानि यानि च । सर्वाण्यस्वामिकान्या- हुन हि तेषु पुरिग्रहः” । स्वाम्यमावे हेतुमाह न हि तेखिति । परिग्रहो दानविक्रयणादियथेष्टविनिया- गलट्यणः । तथा “रूक्षं कृमियुत क्लिन्नं संकीर्णांनिष्ट- गब्धिकम । देशन्त्वनिष्टशब्दञ्च वर्जयेत् श्राद्धकर्मणि” । रूक्षं धूलियुत क्लिन्न पङ्किलम् अनिष्टगन्धम् असुरभि- गन्धम् अनिष्टशब्दं प्रतिकूलशब्दम्” ।


शब्दकल्पद्रुमः

श्राद्धं || क्ली (श्रद्धा प्रयोजनमस्य । श्रद्धा + “चूडा- दिभ्य उपसंख्यानम् ।” ५ । १ । ११० । इत्यस्य वार्त्तिकोक्त्या अण् ।)
शास्त्रोक्तविधानेन पितृ- कर्म्म । इत्यमरः ॥ पित्रु द्देश्यकश्रद्धयान्नादि- दानम् । तस्य लक्षणम् । यथा, —
“संस्कृतव्यञ्जनाढ्यञ्च पयोदधिघृतान्वितम् । श्रद्धया दीयते यस्मात् श्राद्धं तेन निगद्यते ॥” इति पुलस्त्यवचनात् श्रद्धया अन्नादेर्दानं श्राद्धं इति वैदिकप्रयोगाधीनयौगिकम् । इति श्राद्ध- तत्त्वम् ॥ अपि च । सम्बोधनपदोपनीतान् पित्रादीन् चतुर्थ्य न्तपदेनोद्दिश्य हविस्त्यागः श्राद्धम् । तत्तु द्वादशविधं यथा । विश्वामित्रः । “नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं सपिण्डनग् पार्व्वणञ्चेति विज्ञेयं गोष्ठ्यां शुद्ध्यर्थमष्टमम् ॥ कर्म्माङ्गं नवमं प्रोक्तं दैविकं दशमं स्मृतम् । यात्रार्थैकादशं प्रोक्तं पुष्ट्यर्थं द्वादशं स्मृतम् ॥” एतद्भविष्यपुरांणे विवृतम् । यथा, भविष्ये । “अहन्यहनि यच्छ्राद्धं तन्नित्यमभिधीयते । वैश्वदेवविहीनं तदशक्तावुदकेन तु ॥ एकोद्दिष्टन्तु यच्छ्राद्धं तन्नैमित्तकमुच्यते । तदप्यदैवं कर्त्तव्यमयुग्मानासयेद्द्विजान् ॥ काम्याय तु हितं काम्यमभिप्रेतार्थसिद्धये । पार्व्वणेन विधानेन तदप्युक्तं खगाधिप ॥ वृद्धौ यत् क्रियते श्राद्धं वृद्धिश्राद्धं तदुच्यते । सर्व्वं प्रदक्षिणं कार्य्यं पूर्व्वाह्णे तूपवीतिना ॥ गन्धोदकतिलैयुक्तं कुर्य्यात् पात्रचतुष्टयम् । अघ्यार्थं पितृपात्रेषु प्रे तपात्रं प्रसेचयेत् ॥ ये समाना इति द्वाभ्यामेतज्ज्ञेयं सपिण्डनम् । नित्येन तुल्यं शेषं स्यादेकोद्दिष्टं स्त्रिया अपि ॥ श्रमावास्यां यत् क्रियते तत् पार्व्वणमुदाहृतम् क्रियते वा पर्वणि यत् तत् पार्वणमिति स्थितिः गोष्ट्यां यत् क्रियते श्राद्धं गोष्ठीश्राद्धं तदुच्यते बहूनां विदुषां सम्पत्सुखार्थं पितृतृप्तये ॥ क्रियते शुद्धये यत्तु ब्राह्मणानान्तु भोजनम् । शुद्ध्यथमिति तत् प्रोक्तं वेनतेय मनीषिभिः ॥ निषेककाले सोमे च सीमन्तोन्नयने तथा । ज्ञेयं पुंसवने चैव श्राद्धं कर्म्माङ्गमेव च ॥ देवानुद्दिश्य यच्छ्राद्धं तद्दैविकमिहोच्यते । हविष्येण विशिष्टेन सप्तम्यादिषु यत्नतः ॥ गच्छन् देशान्तरं यत्तु श्राद्धं कुर्य्याच्च सर्पिषा यात्रार्थमिति तत् प्रोक्तं प्रवेशे च न संशयः ॥ शरीरोपचये श्राद्धमर्थोपचय एव च । पुष्ट्यर्थमेतद्विज्ञे यमीपचायिकमुच्यते ॥” * ॥
तस्य पञ्चविधत्वं यथा । बृहस्पतिः । “नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं तथैव च पार्व्वणञ्चेति मनुना श्राद्धं पञ्चविधं स्मृतम् ॥” कूर्म्मपुराणे । “अहन्यहनि नित्यं स्यात् काम्यं नैमित्तिकंपुनः एकोद्दिष्टन्तु विज्ञेयं बृद्धिश्राद्धञ्च पार्वणम् ॥ एत त् पञ्चविधं श्राद्धं मनुना परिकीर्त्तितम् ॥” मत्स्यपुराणे त्रैविध्यमुक्तं यथा, —
“नित्य नैमित्तिकं काम्यं त्रिविधं श्राद्धमुच्यते ॥” तस्य द्वैविध्यम् । विष्णुना नित्यकाम्यरूपतया द्वैविध्यं वक्ष्यते । तत्र नित्यपदमावश्यकरूपतया पार्व्वणैकोद्दिष्टयोरपि परिग्रहार्थम् । काम्य- पदमनावश्यकत्वार्थम् । इति श्राद्धविवेकः ॥ * ॥
आदावात्रेयमुनिपुत्त्रेण निमिना तत्पुत्त्रस्य श्राद्धं कृतम् । यथा, — धरण्युवाच । “को गुणः पितृयज्ञस्य कथमेव प्रपूज्यते । केन चोत्पादितं श्राद्धं कस्मिन्नर्थे किमात्मकम् एतदिच्छाम्यहं श्रोतुं विस्तरेण ववेस्व मे ॥ वाराह उवाच । मनोस्तु वंशसम्भूत आत्रेय इति विश्रुतः । आत्रेयस्यात्मजो विप्रो निमिनामा तपोधनः ॥ निमिपुत्त्रस्तु धर्मात्मा त्रिषु लोकेषु विश्रुतः । वर्षाणाञ्च सहस्राणि तपस्तप्त्वा वसुन्धरे ॥ मृत्युकालमनुप्राप्तस्ततः पञ्चत्वमागतः । नष्टञ्च तं सुतं दृष्ट्वा निमेः शोक उपाविशत् । पुत्त्रशोकाभिसंयुक्तो दिवा रात्रौ च चिन्तयन् ॥ निमिः कृत्वा ततः शोकं विधिना तत्र माधवि तमेव गतसङ्कल्पस्त्रिरात्रे प्रत्यपद्यत ॥ तस्य प्रतिविशुद्धस्य माघमासे तु द्वादशीम् । मनः संसृज्य विषयं बुद्धिर्विस्तारगामिनी ॥ स निमिश्चिन्तयामास श्राद्धकल्पं समाहितः । यानि तस्यैव भोज्यानि मूलानि च फलानि च ॥ यानि कानि च भक्ष्याणि नवञ्च रससम्भवम् । यानि तस्यैव चेष्टानि सर्व्वमेतदुदाहरत् ॥ आमन्त्र्य ब्राह्मणं पूर्व्वं शुचिर्भूत्वा समाहितः । दक्षिणावर्त्ततः सर्वं ऋषिः स्वयमकुर्व्वत । सप्त कृत्वा ततस्तत्र युगपत् समुपाविशत् ॥ दत्त्वा तु मांसशाकानि मूलानि च फलानि च पूजयित्वा तु विप्रान् स सप्तकृत्वस्तु सुन्दरि ॥ कृत्वा तु दक्षिणाग्रांश्च कुशांश्च प्रयतः शुचिः । प्रददौ श्रीमते पिण्डं नामगोत्रमुदाहरन् ॥ एतस्मिन्नन्तरे देवि नारदो द्विजसत्तमः । जगाम तापसारण्यं ऋष्याश्रमविभूषितम् ॥ तं दृष्ट्वा पूजयामास स्वागतेनाथ माधवि । भीतो गद्गदया वाचा निश्वसंश्च मुहुर्मुहुः ॥ सव्रीडो भाषते विप्रः कारुण्ये न समन्वितः । कृतः स्नेहश्च पुत्त्रार्थे मया संकल्प्य यत् कृतम् ॥ तर्पयित्वा द्विजान् सप्त अन्नाद्येन फलेन च । पश्चाद्विसर्ज्जितं पिण्डं दर्भानास्तीर्य्य भूतले ॥ उदकानयनञ्चैव त्वपसव्येन पायितम् । शोकस्ने हप्रभावेण एतत् कर्म्म मया कृतम् ॥ न च श्रुतं मया पूर्वं न देवैरृ षिभिः कृतम् । भयं तीव्रं प्रपश्यामि मुनिशापात् सुदारुणात् नारद उवाच । न भेतव्यं द्विजश्रेष्ठ पितरं शरणं व्रज । अधर्म्मं न च पश्यामि धर्मेणैवात्र संशयः ॥ नारदेनैवमुक्तस्तु निमिर्ध्यानमुपाविशत् । कर्म्मणा मनसा वाचा पितरं शरणं गतः ॥ ततोऽतिचिन्तयामास वंशकर्त्तारमात्मनः । ध्यायमानस्ततोऽप्याशु आजगाम तपोधनः ॥ पुत्त्रशोकेन सन्तप्तं पुत्त्रं दृष्ट्वा तपोधनः । पुत्त्रमाश्वासयामास वाग्भिरिष्टाभिरव्ययैः ॥ निमे सङ्कल्पितश्रेयान् पितृयज्ञस्तपोधन । पितृयज्ञेति निर्द्दिष्टो धर्म्मोऽयं ब्रह्मणा स्वयम् ॥ ततो ह्यतितरो धर्म्मः क्रतुरेकः प्रतिष्ठितः । कृतः स्वयम्भुवा पूर्वंश्राद्धे यो विधिरुत्तमः ॥” इति वाराहे श्राद्धोत्पत्तिनामाध्यायः ॥ * ॥
अपि च । “अपसव्येन दातव्यं मासि मासि तिलोदकम् । प्रणम्य शिरसा देवीर्निर्व्वापस्य च धारिणीः । वष्णवी काश्यपी चेति अजया चेति नामतः ॥ एवं दत्तेन प्रीयन्ते पितरश्च न संशयः । परमात्मा शरीरस्थो देवतानां मया कृतः ॥ त्रयस्तत्र वरारोहे देवगात्राद्विनिस्मृताः । पितृदेवा भविष्यन्ति भोक्तारः पितृपिण्डकान् । देवतासुरगन्धर्व्वा यक्षराक्षसपन्नगाः । पिण्डं श्राद्धस्य पश्यन्ति वायुभूता न संशयः ॥ पितृयज्ञं विशालाक्षि ये कुर्व्वन्ति विदो जनाः । आयुः कीर्त्तिर्बलं तेजो धनं पुत्त्रपशुस्त्रियः ॥ ददन्ति पितरस्तस्य आरोग्यं नात्र संशयः । आत्मकर्म्मवशाल्लोकान् प्राप्नु वन्तीह शोभनान् । तिर्य्यक्ष च विमुच्यन्ते प्रेतभावाच्च मानवाः । नरके पच्यमानानां त्राता भवति मानवः ॥ पूजकः पितृदेवानां सर्व्वकालं गृहाश्रमे । द्विजातींस्तर्पयित्वां तु पूर्णेन विधिना नरः ॥ अक्षयं तस्य मन्यन्ते पितरः श्राद्धतर्पिताः । नरा ये पितृभक्तास्ते प्राप्नु वन्ति परां गतिम् ॥ * पक्वान्नं तत्र वै कार्य्यं सुविसृष्टञ्च शुद्धितः । वृत्ते तु तत्र मध्याह्ने श्राद्धारम्भन्तु कारयेत् ॥ स्वागतञ्च तथा कृत्वा पाद्यार्थं मण्डलं शुचिः । पाद्यं दत्त्वा तु विप्राय गृहस्याभ्यन्तरं नयेत् ॥ आसनं कल्पयित्वा तु आवाह्य तदनन्तरम् । अर्घ्यं दद्याद्विधानेन गन्धमाल्यैः प्रपूज्य च ॥ धूपं दीपं तथा वस्त्रं तिलोदकमथापि वा । पात्रञ्च भोजनस्यार्थे विप्राग्रे धारयेत्तथा ॥ भस्मना मण्डलं कार्य्यं पंक्तिदोषनिवारकम् । अग्निकार्य्यं ततः कृत्वा अन्नञ्च परिवेशयेत् ॥ तत्र कार्य्यस्तु सङ्कल्पः पितॄनुद्दिश्य सुन्दरि । ययासुखेन भोक्तव्यमिति ब्रूयाद्द्विजं प्रति ॥ रक्षोघ्नमन्त्रपाठांश्च आचमेत विचक्षणः । तृप्तांस्तु ब्राह्मणान् ज्ञात्वा दद्याद्वै विकिरं ततः ॥ उत्तरापोशनं दत्त्वा पिण्डप्रश्नन्तु कारयेत् । दक्षिणाभिमुखो भूत्वा दर्भानास्तीर्य्य भूतले ॥ पिण्डदानं प्रकुर्व्वीत पित्रादित्रितये तथा । पिण्डानां पूजनं कार्य्यं तन्तुवृद्ध्यै यथाविधि ॥ ब्राह्मणस्य च हस्ते तु दद्यादक्षय्यमात्मवान् । पिण्डास्त्रयस्तु वसुधे यावत्तिष्ठन्ति भूतले ॥ आप्यायमानाः पितरस्तावत्तिष्ठन्ति वै गृहे । उपस्पृश्य शुचिर्भूत्वा दद्यात् शान्त्युदकानि च ॥ प्रणम्य शिरसा भूमौ निर्वापस्य च धारिणीः । वैष्णवी काश्यपी चेति अक्षय्या चेति नामतः ॥ भक्षयेत् प्रथमं पिण्डं पत्न्यै देयञ्च मध्यमम् । तृतीयमुदके दद्यात् श्राद्धे एवं विधिः स्मृतः ॥ पितृदेवं विसृज्याथ भक्त्या तु प्रणमेत्तु तान् । एवं दत्तेन तुष्यन्ति पितृदेवा न संशयः ॥ दीर्घायुष्यं प्रयच्छन्ति पुत्त्रपौत्त्रधनानि च । तेनोत्तमेषु विप्रेषु दद्यात् श्राद्धं विधानतः ॥ अन्यथा तत्तु वै श्राद्धं निष्फलं नास्ति संशयः । मन्त्रहीनं क्रियाहीनं यत् श्राद्धं कुरुते द्विजः । मद्भक्तस्यासुरेन्द्रस्य फलं भवति भागतः ॥” इति वाराहे पितृयज्ञनिर्णयनामाध्यायः ॥ * ॥
तस्याधिकारिक्रमो यथा, —
“पुत्त्रः पौत्त्रः प्रपौत्त्रो वा भ्राता वा भ्रातृ- सन्ततिः । सपिण्डसन्ततिर्बापि क्रियार्हा नृप जायते ॥ तेषामभावे सर्व्वेषां समानोदकसन्ततिः । मातृपक्षस्य पिण्डेन सम्बद्धा ये जलेन वा ॥ कुलद्वयेऽपि चोत्सन्ने स्त्रीभिः कार्य्या क्रिया नृप । संघातान्तर्गतैर्व्वापि कार्य्याः प्रेतस्य याः क्रियाः ॥ उत्सन्नबन्धुरिक्थाद्वा कारयेदवनीपतिः । पूर्व्वाः क्रिया मध्यमाश्च तथा चैवोत्तराः क्रियाः ॥ त्रिप्रकाराः क्रियास्त्वेतास्तासां भेदं शृणुष्व मे । आदाहवार्य्यायुधादिस्पर्शाद्यन्तास्तु याः क्रियाः ॥ ताःपूर्व्वा मध्यमा मासि मास्येकोद्दिष्टसंज्ञिताः । प्रेते पितृत्वमापन्ने सपिण्डीकरणादनु ॥ क्रियन्ते याः क्रियाः पित्र्याः प्रोच्यन्तेता नृपो- त्तराः । पितृमातृसपिण्डैस्तु समानसलिलैस्तथा ॥ संघातान्तर्गतैश्चैव राज्ञा वा धनहारिणा । पूर्व्वाः क्रियास्तु कर्त्तव्याः पुत्त्राद्यैरेव चोत्तराः । दौहित्रैर्व्वा नरश्रेष्ठ कार्य्यास्तत्तनयैस्तथा । मृताहनि च कर्त्तव्याः स्त्रीणामप्युत्तराः क्रियाः ॥ प्रतिसंवत्सरं राजन्ने कोद्दिष्टं विधानतः ॥” इति विष्णुपुराणे ३ अंशे १३ अध्यायः ॥ * ॥
याज्ञवल्क्य उवाच । “अथ श्राद्धविधिं वक्ष्ये सर्व्वपापप्रणाशनम् । अमावास्याष्टकावृद्धिः कृष्णपक्षोऽयनद्वयम् ॥ द्रव्यं ब्राह्मणसम्पत्तिर्विषुवत् सूर्य्यसंक्रमः । व्यतीपातो मजच्छाया ग्रहणं चन्द्रसूर्य्ययोः ॥ श्राद्धं प्रतिरुचिश्चैव श्राद्धकालाः प्रकीत्तिताः ॥ * ॥
अग्रो यः सर्व्ववेदेषु श्रोत्रियो वेदविद्युवा । वेदार्थविज्ज्येष्ठसामास्त्रिमधुस्त्रिसुपर्णिकः ॥ स्वस्रीयऋत्विग् जामातृयाज्यश्वशुरमातुलाः । त्रिणाचिकेतदीहित्रशिष्यसम्बन्धिबान्धवाः ॥ कर्म्मनिष्ठास्तपोनिष्ठाः पाञ्चाग्निर्ब्रह्यचारिणः । पितृमातृपराश्चैव ब्राह्मणाः श्राद्धदेवताः ॥ * ॥
रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा ॥ अवकीर्ण्यादयो ये च ये चाचारविवर्ज्जिताः । अवैष्णवाश्च ये सर्व्वे न श्राद्धार्हाः कदाचन ॥ * ॥
निमन्त्रयेच्च पूर्व्वेद्युर्द्विजैर्भाव्यञ्च संयतैः । आचान्तश्चैव पूर्व्वाह्णे ह्यासने सूपवेशयेत् ॥ युग्मान्दैवे तथा पित्रे सुप्रदेशे स्वशक्तितः । द्वौ दैवे प्रागुदक्पित्र्ये त्रीण्येकं चोभयोः पृथक् ॥ मातामहानामप्येवं तन्त्रं वा वैश्यदेविकम् । हस्तप्रक्षालनं दत्त्वा विष्टरार्थं कुशानपि ॥ आवाह्य तदनुज्ञातो विश्वेदेवास इत्यृचा । यवैरन्ववकीर्य्याथ भाजने सपवित्रके ॥ शन्नो देव्या पयः क्षिप्त्वा यवोऽसीति यवांस्तथा । या इति मन्त्रेण हस्तेष्वे व विनिक्षिपेत् ॥ नन्धोदके तथा धूपमाल्यदानप्रदीपकम् । अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणम् ॥ द्विगुणांस्तु कुशान् दत्त्वा उषन्तस्त्वेत्यृचा पितॄन् । आवाह्य तदनुज्ञातो जपेदायान्तु नस्ततः ॥ यवार्थस्तु तिलैः कार्य्यः कुर्य्यादर्घ्यादि पूर्ववत् । दत्त्वा तु संश्रवांस्तेषां पात्रे कृत्वा विधानतः ॥ पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः । अग्नौ करिष्येत्यादाय पृच्छत्यन्नं घृतप्लु तम् ॥ कुरुष्वेति तथोक्तोऽग्नौ हुत्वासौ पितृयज्ञतः । हुतशेषं प्रदद्याच्च भाजनेषु समाहितः ॥ यथालाभोपपन्नेषु रौप्येषु च विशेषतः । दत्त्वान्नं पृ थवी ते पात्रमिति पात्राभि मन्त्रणम् ॥ कृत्वेदं विष्णुरित्यन्ने निजाङ्गुष्ठं निवेशयेत् । सव्याहृतिकां गायत्त्रीं मधुवातेत्यृचं तथा ॥ जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः । अन्नमिष्टं हविष्यञ्च दद्यादक्रोधनोऽत्वरः ॥ आतृप्तेश्च पवित्राणि जप्त्वा पूर्व्वजपन्तथा । अन्नमादाय तृप्ताः स्थ शेषञ्चैवानुमन्य ह ॥ तदन्नं प्रकिरेद्भूमौ दद्याच्चापः सकृत् सकृत् । सर्व्व मन्नमुपादाय सतिलं दक्षिणामुखः ॥ उच्छिष्टसन्निधौ पिण्डान् प्रदद्यात् पितृयज्ञवत् । मातामहानामप्येवं दद्याच्चाचमनं ततः ॥ स्वस्ति प्रीयन्तामिति चाहैवं विश्वेदेवान् जलं ददत् । स्वस्तिवाच्य ततो दद्यादक्षय्योदकमेव च ॥ दत्त्वा तु दक्षिणां शक्त्या स्वधाकारमुदीरयेत् । वाच्यतामित्युनुज्ञातः पितृभ्यश्च स्वधोच्यताम् ॥ विप्रैरस्तु स्वधेत्युक्तो भूमौ सिञ्चेत्ततो जलम् । दातारो नोऽभिवर्द्धन्तां वेदाः सन्ततिरेव च ॥ श्रद्धा च नो मा व्यगमत् । बहु देयञ्च नोऽस्त्विति इत्युक्त्वापि प्रियं वाचं प्रणिपत्य विसर्ज्जयेत् ॥ वाजे वाजे इति प्रीत्या पितृपूर्व्वं विसर्ज्जनम् । यस्मि स्ते संश्रवाः पूर्व्व मर्घ्यपात्रे निपातिताः ॥ पितृपात्रं तदुत्तानं कृत्वा विप्रान् विसर्ज्जयेत् । प्रदक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम् ॥ ब्रह्मचारी भवेत्तान्तु रजनीं भार्य्यया सह । एवं प्रदक्षिणं कृत्वा वृद्धौ नान्दिमुखानपि ॥ यजेत यवकर्क्कन्धुमिश्राः पिण्डा यवैः श्रिताः । एकोद्दिष्टं दैवहीनमेकार्घ्यैकपवित्रकम् । आवाहनाग्नौ करणरहितं अपसव्यवत् । उपतिष्ठतामित्यक्षय्यस्थाने विप्रान् विसर्ज्जयेत् ॥ अभिरम्यतां प्रब्रूयात् ब्रूयुस्तेऽभिरताः स्म ह । गन्धोदकतिलैमिश्रं कुर्य्यात् पात्रचतुष्टयम् ॥ अर्घ्याथं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् । ये समाना इति द्वाभ्यां शेषं पूर्व्ववदाचरेत् ॥ एतत् सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि । अर्व्वाक् सपिण्डीकरणं यस्य संवत्सराद्भवेत् ॥ तस्याप्यन्नं सोदकुम्भं दद्यात् संवत्सरं द्विज । पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा ॥ हविष्यान्नेन वै मासं पायसेन तु वत्सरम् । मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः ॥ ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमम् । मासवृद्ध्यापि तुष्यन्ति दत्तैरिह पितामहाः ॥ दद्याद्वर्षा त्रयोदश्यां मघासु च न संशयः । प्रतिपत्प्रभृतिष्वेवं कन्यादीन् श्राद्वदो भवेत् ॥ शस्त्रेण निहतानान्तु चतुर्द्दश्यां प्रदीयते ॥ * ॥
स्वर्गं ह्यपत्यमोजश्च शौर्य्यं क्षेत्रं बलं तथा ॥ पुत्त्रश्रेष्ठान् ससौभ्याम्यानपत्यं मुख्यतां शुभम् । प्रवृत्तचक्रतां पुत्त्रान् बाणिज्यप्रभृतींस्तथा ॥ अरोगित्वं यशो वीतशोकतां परमां गतिम् । धनं विद्यां भिषक्सिद्धिं कुप्यं गोऽजाविकं तथा ॥ अश्वानायुश्च विधिवद्यः श्राद्धं संप्रयच्छति । कृत्तिकादिभरण्यन्तं सकामानाप्नुयादिमान् ॥ वस्त्राद्याः प्रीणयन्त्येव नवं श्राद्धं कृतं द्विजाः । आयुष्प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च ॥ प्रयच्छति तथा राज्यं प्रीतो नित्यं पितामहः ॥” इति गारुडे ९९ अध्यायः ॥ * ॥
अपिच । “व्याशश्राद्धमहं वक्ष्ये भुक्तिमुक्तिप्रदं नृणाम् । पूर्व्वं निमन्त्रयेद्विप्रान् निशि स्युर्ब्रह्मचारिणः ॥ प्रदक्षिणोपवीतेन देवान् वामोपवीतिना । पितॄन्निमन्त्रयेत् पादौ क्षालयेद्वाक्यमन्त्रतः ॥ ॐ स्वागतं भवद्भिरिति प्रश्नः । ॐ सुस्वागतमिति तैरुक्ते ॐ विश्वेभ्यो देवेभ्य एतत् पादोकमर्घ्यं स्वाहा पितृभ्यः स्वधा इति देवब्राह्मणपादयो- र्देवतीर्थेनाभुग्नकुशजलकुसुमदानम् । ततो दक्षिणामुखस्य वामोपवीतेन अमुकगोत्रेभ्यः अस्मत्पितृपितामहप्रपितामहेभ्यो यथानाम- शर्म्मभ्यः सपत्नीकेभ्य एतत् पादादकमर्घ्यं स्वधा इति पित्रादिब्राह्मणपादयोः पितृतीर्थेन भुग्न- कुशतिलकुसुमजलदानम् । एवं मातामहा दिषु । एतद्व आचमनीयं स्वाहा स्वधेति ब्राह्मणहस्ते । एष वो अर्घ्यः इति ब्राह्मणहस्त- ऽर्ध्यदानम् । एतद्वः पुष्पं इति ब्राह्मणहस्ते- पुष्पदानम् । ॐ सिद्धमिदमासनं इहासध्व- मित्यभिधाय ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यं सप्तव्याहृतिभिः पूर्व्व मुखदेवव्राह्मणोपवेशनम् । उत्तराभिमुखाः पितरः ॐ देवताभ्यः पितृभ्यश्च महायोगिभ्य एवच । नमः स्वधायै स्वाहायै नित्यमेव नमो नमः इति त्रिर्ज्जपेत् । ॐ अद्यास्मिन्देशे अमुकमासे अमुकराशिगते सवितरि अमुकस्यां तिथौ अमुकगोत्राणामस्मत्पितृपितामह- प्रपितामहानां यथानामशर्म्मणां विश्वेदेवपूर्व्वकं श्राद्धमहं करिष्ये ॐ विश्वेभ्यो देवेभ्य इदमासनं स्वाहा । ॐ विश्वान् देवानावाहयिष्ये ॐ आवाहय इत्युक्ते ॐ विश्वेदेवास आगत शृणु- ताम इमं हवं एदं वर्हिर्निषीदत । ॐ विश्व- देवाः शृणुतेमं हवं ये मे अन्तरीक्षे य उप- द्यविष्ट येऽग्निजिह्वा उत वा यजत्रा आस- द्यास्मिन् वर्हिषि मादयध्वम् । ॐ ओषधयः समवदन्त सोमेन सह राज्ञा यस्मै कृणोति ब्राह्मणस्त्वं राजन् पारयामसि । ॐ आगच्छन्तु महाभागा विश्वेदेवा महाबलाः ये यत्र विहिताः श्राद्धे सावधाना भवन्तु ते ॥ ॐ अपहतासुरारक्षांसि वेदिसदः । इति त्रिभिर्यवविकिरणम् । ॐ पवित्रमहं करिष्ये ॐ कुरुष्वेति तेनोक्ते साग्रकुशपत्रद्धयं प्रादेश- प्रमाणं कृत्वा ॐ पवित्रे स्थो वैष्णव्यौ अनेनं कुशान्तरेण छित्त्वा ॐ विष्णुर्मनसा पूते स्थः इत्युभ्य क्ष्य कुशान्तरेण त्रिवृतं कृत्वा पात्रे पवित्रनिवेशनम् । शन्नो देवीरभीष्टये आपो भवन्तु पीतये शंयोरभिस्रवन्तु नः । इति पात्रे जलदानम् । ॐ यवोऽसि यवयास्मद्दे शो यवया- राती इति यवदानम् । ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईखरीं सर्व्वभूतानां त्वामिहोपह्वये श्रियम् ॥ इति गन्धदानम् ॥ ॐ श्रीश्च ते लक्ष्मीश्च पत्न्या इति पुष्पदानम् । ॐ या दिव्या आपः पयसा सम्बभूवुर्य्या अन्त- रीक्षा उतपार्थ वीर्य्या हिरण्यवर्णा यज्ञियास्ता न आपः शिवाः संश्योनाः सुहवा भवन्तु ॐ धुरिलोचनसंज्ञकेभ्यो विश्वे भ्यो देवेभ्य एषोऽर्घ्यो नमः । इति हस्तेऽर्घ्यं दत्त्वा अनेनैव पात्रेण सप्लवपवित्रग्रहणं प्रथमपात्रेण संप्लवं पवित्रञ्च गृहीत्वा ब्राह्मणदक्षिणपार्श्वे कुशोपरि उर्द्ध्व- मुखपात्रे स्थापनं तदुपरि कुशदानम् । ततः ॐ धुरिलोचनसंज्ञकेभ्यो विश्वेभ्यो देवेभ्य एतानि गन्धपुष्पधूपदीपवासोयुगसोत्तरीययज्ञोपवीतानि नमः । गन्धादिदानमच्छ्रिद्रमस्तु संकल्पसिद्धि- रस्तु । ब्राह्मणवाचनम् । ततः पितृपितामह- प्रपितामहमातामहप्रमातामहवृद्धप्रमाता- महानां सपत्नीकानां श्राद्धमहं करिष्ये । अनु- ज्ञापनम् । ॐ कुरुष्वेति ब्राह्मणैरुक्ते । ॐ देव- ताभ्यः तृइभ्यश्च महायोगिभ्य एव च । इति त्रिर्जपेत् । तत ॐ अमुकसगोत्राणां अस्मत्- पितृपितामहप्रपितामहानां यथानामशर्म्मणां सपत्नीकानां श्राद्धं युष्मास्वहं करिष्ये । ॐ कुरुष्व श्राद्धकरणानुज्ञानम् । ॐ अमुक- सगोत्रेभ्यः अस्मत्पितृपितामहप्रपितामहेभ्यो यथानामशर्म्मभ्यः सपत्नीकेभ्य इदमासनं स्वधा । ब्राह्माणवामपार्श्वे आसनम् । ॐ पितॄनावाह- यिष्ये ॐ आवाहयेत्युक्ते ॐ उशन्तस्त्वानिधीमह्यु- शन्तः समिधीमही । उशन्नु शत आवह पितॄन् हविषे अत्तवे । ॐ आयान्तु नः पितरः सौम्यासो अग्निष्वात्ताः पथिभिर्देवयानैः । अस्मिन् यज्ञे स्वधया मदन्तोऽधिब्रुवन्तु तेऽवन्त्व- स्मान् । इत्यावाहनम् । ॐ अपहतासुरा रक्षांसि वेदिसदः । त्रिस्तिलविकिरणम् । ॐ तिलोऽपि सोमदैवत्यो गोसवो देवनिर्म्मितः । प्रत्नमद्भिः पृक्तः स्वधया पितॄन् लोकान् प्रीणाहि नः स्वाहा । तिलदानम् । गन्धपुष्पं हस्ताभ्यां दत्त्वा पितृपात्रमुत्थाप्य या दिष्येति पठित्वा अमुकगोत्र अस्मत्पितः अमुकशर्म्मन् सपत्रीक एष ते अर्घ्यः स्वधा । एवं पितामहादौ । सपवित्रं पात्रं गृहीत्वा ब्राह्मणवामपार्श्वे टक्षिणाग्रकुशोपरि ॐ पितृभ्यः स्थानमसीति अधोमुस्वपात्रस्थापनम् । ॐ शुन्धन्तां लोकाः पित्मदनाः पितृसदनमसि । अधोमुखपात्र- स्पर्शनम् । ततः अमुकसगोत्रेभ्यः अस्मत्पितृ- पितामहप्रपितामहेभ्यः मपत्नीकेभ्यः एतानि गवपुप्पध पदीपवासोयुगसोत्तरीययज्ञोपवीतानि स्वधा । पितृतीर्थेन गन्धादिदानम् । गन्धादि- दानमच्छिद्रमस्तु सङ्कल्पसिद्धिरस्तु । ब्राह्मण- वाचनम् । एवं मातामहादीनामनुज्ञापनादि कर्म्म । ॐ या दिव्येति भूमिसम्मार्ज्जनम् । ततो घृताक्तमन्नं गृहीत्वा दक्षिणोपवीतं पितृ- ब्राह्मणम् । ॐ अग्नौ करणमहं करिष्ये ॐ कुरु- ष्वेति तेनोक्ते ॐ अग्नये कव्यवाहनाय स्वाहा ॐ सोमाय पितृमते स्वाहा । आहुतिद्वयं देव- ब्राह्मणहस्ते दत्त्वा अवशिष्टार्द्धंपिण्डार्थं स्थाप- यित्वा अपरमर्द्धं पित्रादिपात्रे मातामहादिपात्रे च निःक्षिपेत् । पात्रे अन्नादिनिधाय कु शंदत्त्व अधोमुखाभ्यां पाणिभ्यां पात्रं गृहीत्वा । ॐ पृथिवी ते पात्रं द्यौः पिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहोमि स्वाहा । पात्राभि- मन्त्रणम् । इदं विष्णुर्व्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पांशुले विष्णो हव्यं रक्षस्व । इत्यन्नोपर्य्यधोमुखद्विजाङ्गष्ठनिवेशनम् । ॐ अप- हतेति त्रिर्य्यवविकरणम् । ॐ निहन्मि सर्व्वं यदमेध्यवद्भवेत् हताश्च सर्व्वेऽसुरदानवा मया । रक्षांसि यक्षाः सपिशाचसंघा हता मया यातुधानाश्च सर्व्वे ॥ इति सिद्धार्थविकिरणम् ॥ ततः ॐ धुरिलोचनसंज्ञकेभ्यो विश्वे भ्यो देवेभ्य एतदन्नं सघृतं सपानीयं सव्यञ्जनं स्वाहा इति वारिकुशाद्यैरन्नसङ्कल्पनम् । ॐ श्राद्धमिद- मच्छिद्रमस्तु सङ्कल्पसिद्धिरस्तु । ततो वामोप- वीतेन सव्यञ्जनं सघृतमन्नं पित्रादिपात्रे निधाय तदुपरि भूमिसंलग्नकुशं दत्त्वा ॐ पृथिवी ते पात्रं अभिमन्त्रणम् । उत्तानाभ्यां पाणिभ्यां पात्रं गृहीत्वा ॐ इदं विष्णुरित्यन्नोपरि उत्ता- नाङ्गुष्ठं निवेशयेत् ॐ अपहता इति तिलविकि- रणम् । भूमिपातितवामजानुः । अमुकगो- त्रेभ्यः अस्मत्पितृपितामहप्रपितामहेभ्य अमु- कामुकशर्म्मभ्यः सपत्नीकेभ्य एतदन्नं सघृतं सपानीयं सव्यञ्जनं प्रतिषिद्धवर्ज्जितं स्वधा । अन्नसङ्कल्पः । ॐ ऊर्ज्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्रु तं स्वधास्त तर्पयत मे पितॄन् । दक्षिणामुखवारित्यागः । ॐ अन्नमिदमच्छिद्रमस्तु सङ्कल्पसिद्धिरस्तु । ततः सव्याहृतिकया गायत्त्र्या विसर्ज्जयित्वा मधु- वाता ऋतायते मधु क्षरन्ति सिन्धवः माध्वीर्नः सन्त्वोषधीः । मधुनक्तमुतोषसो मधुमत् पार्थिवं रजः मधु द्यौरस्तु नः पिता । मधुमान्नो वन- स्पतिर्मधुमानस्तु सूर्य्यो माध्वीर्गावो भवन्तु नः ॥ मधु मधु मधु इति जपः । यथा सुखं बाग्यता जुषध्वमिति ब्रूयात् । भुक्तवत्सु सप्तव्याधादिकं पितृस्तोत्रं जपत् । ॐ सप्तव्याधा दशार्णेषु मृगाः कालाञ्जरे गिरौ । चक्रवाकाः सरद्वीपे हंसाः सरसि मानसे ॥ तेऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः । प्रस्थिता दूरमध्वानं यूयं तेभ्योऽवसीदत ॥ ततस्तृप्तेषु । दक्षिणामुखो वामोपवीती उच्छिष्ठाग्रतः । ॐ अग्निदग्धाश्च ये जीवाः येऽप्यदन्धाः कुले मम । भूमौ दत्तन तृप्यन्तु तृप्ता यास्तु परां गतिम् ॥ इति भूमौ कुशोपरि सघृमन्नं जलप्लुतं विकि- रेत् । ततो देवब्राह्मणक्रमेण जलगण्डूष दत्त्वा पूर्व्ववत् पुनः सव्याहृतिकां सावित्रीं मधुवाते- त्यृचं मधु मध्विति च जप्त्वा ॐ रुचितं भव- द्भिरिति देवब्राह्मणप्रश्नः । सुरुचितमिति तेनोक्ते ॐ शेषमन्नमप्यस्तीति प्रश्नः । इष्टैः सह भुङ्क्ष्वेति तेनोक्ते पित्रादिब्राह्मणे वामोप- वीतेन ॐ तृप्तास्थ इति प्रश्नः । ॐ तृप्तास्म इत्यक्त शेषमन्नेति प्रश्नः । ॐ इष्टैः सह भुङ्क्ष्वेति तेनोक्ते मातामहादिब्राह्मणे तथैव प्रश्नः । ततः पित्रादिब्राह्मणे पिण्डानहं पात- यिष्ये पातयेत्युक्ते । तदुच्छिष्टाग्रतोऽभ्युक्षणं मण्डलञ्च चतुष्कोणं तिलविकिरणं ॐ अमुक- गोत्र अस्मत्पितः अमुकशर्म्मन् सपत्नीक एतत्ते पिण्डासनं स्वधा इत्थं रेखामध्ये पिता- महाय प्रपितामहाय च । सव्याहृतिकां गायत्त्रीं मधुवातेति त्रिर्ज्जपन् अन्नं साज्यं पिण्ड कृत्वा कुशोपरि अमुकगोत्रास्मत्पितः अमुक- शर्म्मन् सपत्नीक एष ते पिण्डः ये चात्र त्वामनु यांश्च त्वमनु तस्मै ते स्वधा । एवं पितामह- प्रपितामहमातामहप्रमातामहवृद्धप्रमाताम- हेभ्यः । पिण्डशेषविकिरणं पिण्डान्तिके । ॐ लेपभुजः प्रीयन्तां इति स्तरणकुशेषु हस्त- मार्ज्जनम् । प्रक्षालितेन पिण्डपात्रोदकेन अमुक गोत्र अस्मत्पितः अमुकशर्म्मन् सपत्नीक एतत्ते जलमवनेनिक्ष्व ॐ ये चात्र त्वामनु यांश्च त्वमनु तस्मै ते स्वधेति पितृपिण्डसेचनम् । पिण्डपात्रमधोमुखं कृत्वा बद्धाञ्जलि ॐ अत्र पितरो मादयध्वं यथाभागमावृषायध्वमिति जपः । अपः स्पृष्ट्वा वामेन परावृत्य उदङ्मुखश्च प्राणास्त्रिः संयम्य । ॐ वसन्ताय नमस्तुभ्यं ग्रीस्माय च नमो नमः । वर्षाभ्यश्च शरत्संज्ञ ऋतवे च नमः सदा ॥ हेमन्ताय नमस्तुभ्यं नमस्ते शिशिराय च । माससंवत्सरभ्यश्च दिवसेभ्यो नमो नमः ॥ ॐ षड्भ्य ऋतुभ्यो नमः पितृभ्यो नमः । इति जपः । वामेनेव परावृत्य दक्षिणामुखः अमी मदन्त पितरो यथाभागमावृषायिषत । इति जपः । वासः शिथिलीकृत्याञ्जलिं कृत्वा ॐ नमो वः पितरः पितरो नमो वः । इति जपः । गृहान्नः पितरो दत्त । इति गृहवीक्षणम् ॥ ॐ सदो वः पितरो देष्मः । इति पिण्डवीक्ष- णम् । ॐ एतद्वः पितरो वासः इत्युच्चार्य्य अमुकगोत्र इत्यादिना एतत्ते वासः ॐ ये चात्र त्वामनु यांश्च त्वमनु तस्मै ते स्वधा । दशाभवसूत्रदानम् । वामेन पाणिना उदक पात्रं गृहीत्वा । ॐ ऊर्ज्जं वहन्तीरमृतं घृतं पयः कीलालं इत्यादिना पिण्डोपरि बारिधारा- त्यागः । पूर्वस्थापितपात्रशेषोदकैः प्रत्येकं पिण्ड- सेचनम् । पिण्डवाह्येन गन्धादिदानम् । पिण्डो- परि कुशं हस्तञ्च दत्त्वा ॐ अक्षन्नमी मदन्त- ह्यवप्रिया अधूषत अस्तोषत स्वभानवो विप्रा न विष्टया मतीयो यान्न्विन्द्र ते हरीति जपः । इत्थं मातामहादेर्ब्राह्मणानामाचमनं सुसुप्रो- क्षितमस्त्विति भूम्यभ्युक्षणं कृत्वा । अपां मध्ये स्थिता देवा सर्व्वमप्सु प्रतिष्ठितम् । ब्राह्मणस्य करे न्यस्ताः शिवा आपो भवन्तु नः ॥ शिवा आपः सन्त्विति हस्ते ब्राह्मणस्य जल- दानम् । लक्ष्मीर्वसति पुष्पेषु लक्ष्मीर्वसति पुष्करे । लक्ष्मीर्वस्ते सदा गोष्ठे सौमनस्यं सदास्तु मे ॥ मीमनस्यमस्तु पुष्पदानम् । ॐ अक्षतञ्चास्तु मे पुण्यं शान्तिः पुष्टिर्धृतिश्च मे । यद्यत् श्रेयस्करं लोके तत्तदस्तु सदा मम ॥ ॐ अक्षतञ्चारिष्टञ्चास्तु यवतण्डुलदानम् । अमुक- गोत्राणामस्मत् पितृ-पितामह-प्रपितामहानां सपत्नीकानां दत्तमिदमन्नपानादिकमक्षय्यमस्तु इति पित्रादिब्राह्मणहस्ते सतिलजलदानम् । यजमानस्य प्रश्ने अस्त्विति ब्राह्मणो वदेत् । एवं मातामहादीनामक्षय्यम् । आशिषः । ॐ अघोराः पितरः सन्तु गोत्रं नो वर्द्धताम् । दातारो नोऽभिवर्द्धन्तां वेदाः सन्ततिरेव च । श्रद्धाच नो मा व्यगमद्वहु देयञ्च नोऽस्त्विति ॥ अन्नञ्च नो बहु भवेदतिथोंश्च लभेमहि । याचितारश्च नः सन्तु मा च याचिष्म कञ्चन ॥ एता एवाशिषः सन्तु सौमनस्यमस्तु सुसुखं चास्तु इत्युक्ते पिण्डपात्रे अर्घ्यसम्बन्धान् कुशान् पवित्राणि चास्तीर्य्य पित्रादिब्राह्मणं स्पृष्ट्वा स्वधां वाचयिष्ये ॐ वाच्यतां ॐ पितृपितामह- प्रपितामह-मातामह-प्रमातामह-वृद्धप्रमाता- महेभ्यो यथानामशर्म्मभ्यः सपत्नीकेभ्यः स्वधो- च्यतां अस्त स्वधा इत्युक्ते ऊर्ज्जं वहन्तीरमृतं घृतं इति पिण्डानामुपरि वारिधारां दद्यात् । तत ॐ विश्वेदेवा अस्मिन् यज्ञे प्रीयन्तां देव- ब्राह्मणहस्ते यवोदकदानं ॐ प्रीयन्तामिति तेनोक्त ॐ देवताभ्य इति त्रिर्ज्जपेत् । अधो- मुखपिण्डपात्राणि चालयित्वा आचम्यदक्षिणो पवोती पूर्व्वाभिमुखः ॐ अमुकसगोत्राय अमुकशर्म्मणे ब्राह्मणाय सपत्नीकाय श्राद्ध- प्रतिष्ठार्थं दक्षिणामिदं रजतं तुभ्यमहं ददे इति दक्षिणां दद्यात् एवं मातामहादौ ततो देवब्राह्मणाय दक्षिणादानम् । ततः पितृ- ब्राह्मणे । पिण्डपात्रमुत्तानं कृत्वा ॐ पिण्डाः सम्पन्नाः ॐ सुसम्पन्ना इति पिण्डे क्षीरधारां दत्त्वा पिण्डचालनम् । ॐ वाजे वाजे वतवाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः ॥ इति पित्रादिविसर्ज्जनम् ॥ ॐ आ मा वाजस्य प्रसवो जगम्या- देमे द्यावा पृथिवी विश्वरूपे । आ मा गन्तु पितरा मातरा युव- मा मा सोमोऽमृतत्वाय गम्यात् ॥ इति देवविसर्ज्जनम् ॥ ॐ अभिरम्यतामित्युक्ते अभिरताः स्म इति ब्राह्मणैरनुज्ञातस्य निवर्त्तनम् । गवादिषु पिण्ड- प्रतिपादनमिति । एष श्राद्धविधिः प्रोक्तः पठतां पापनाशनः । अनेन विधिना श्राद्धं कृतं वै यत्र कुत्रचित् ॥ अक्षयं स्यात् पितॄणाञ्च स्वर्गप्राप्तिर्ध्रुवा तथा । इत्युक्तं पार्व्वणश्राद्धं पितॄणां ब्रह्मलोकदम् ॥” इत्याद्ये गारुडे पार्व्वणश्राद्धम् २२२ अध्यायः ॥ ब्रह्मोवाच । “नित्यश्राद्धं प्रवक्ष्यामि पूर्व्ववत्तद्विशेषयेत् ॥ ॐ अमुकसगोत्राणामस्मत्पितृपितामहप्रपि- तामहानाममुकशर्म्मणां सपत्नीकानां श्राद्धं सिद्धान्नेन युष्मभ्यमहं करिष्ये । आसनादिकमत्र स्याद्विश्वे देवविवर्ज्जितम् । वृद्धिश्राद्धं प्रवक्ष्यामि पूव्ववत्तद्विशेषकम् ॥ जातपुत्त्रमुखदर्शनादौ वृद्धिश्राद्धे पूर्व्वाभिमुखेषु दक्षिणोपवीतिषु मधुयववदरमिश्राः पिण्डा दैव तीर्थेन नमस्कारान्तेन दक्षिणोपचारेणकर्त्तव्यम् दक्षिणजानु गृहीत्वा ॐ अद्यास्मदीयामुकवृद्धौ अमुक-गोत्राणामस्मत्पितृ-पितामहप्रपिता- मह-मातामह-प्रमातामह-वृद्धप्रमातामहानां अमुकशर्म्मणां सपत्नीकानां नान्दीमुखानां श्राद्धेकर्त्तव्ये वसुसत्यसंज्ञकानां विश


शब्दकल्पद्रुमः

श्राद्धं || त्रि (श्रद्धा अस्त्यस्येति । श्रद्धा + “प्रज्ञा श्रद्धार्च्चावृत्तिभ्यो णः ।” ५ । २ । २०१ । इति णः ।)
श्रद्धासमन्वितम् । इति हेमचन्द्रः ॥



Correction: