शब्दकल्पद्रुमः
श्राद्धकर्त्ता || [ऋ] त्रि, (करोतीति । कृ + तृच् । श्राद्धस्य कर्त्ता ।) श्राद्धकारकः । यथा, — “श्राद्धकर्त्ता च भोक्ता च पुनर्भुक्तञ्च वर्ज्जयेत् ॥” इति श्राद्धतत्त्वम् ॥