संस्कृत-शब्दकोशः

श्राद्धकर्त्तृ श्राद्धदेवता

श्राद्धदेव

वाचस्पत्यम्

श्राद्धदेव ||‍ पु० श्राद्धाद्देश्यानां पितॄणां देवः शाक० । १ यमे अमरः । २ वैवस्वतमनौ हरिव० १५ अ० ।


शब्दकल्पद्रुमः

श्राद्धदेवः || पुं, (श्राद्धस्य देवः ।)
यमः । इत्यमरः ॥ (यथा, मार्कण्डेये । ८ । १५६ । “श्राद्धदेवेन कथितं विश्वामित्रस्य चेष्टितम् ॥”)
स तु विवस्वतः संज्ञायां पत्न्यां जातः ॥ मनु- मेदः । इति पुराणम् ॥ (यथा, मार्कण्डेये । १०६ । ४ । “मनुर्वैवस्वतो ज्येष्ठः श्राद्धदेवः प्रजापतिः । ततो यमो यमी चैव यमलौ सम्बभूवतुः ॥”)



Correction: