वाचस्पत्यम्
श्रावणिक || पु० श्रावणी श्रवणनक्षत्रयुक्त पूर्णिमाऽस्त्यणिन् मासे ठन् । १ चान्द्रश्रावणमासे अमर २ तथाभूते पक्षे
शब्दकल्पद्रुमः
श्रावणिकः || पुं, (श्रवणा पौर्णमास्यस्मिन्नस्तीति । श्रवणा + “विभाषा फाल्गुनीश्रवणाकार्त्तिकी- चैत्रीभ्यः ।” ४ । २ । २६ । इति ठक् ।)
श्रावण- मासः । इत्यमरः ॥