संस्कृत-शब्दकोशः

श्रावणिक श्रावन्ती

श्रावणी

शब्दकल्पद्रुमः

श्रावणी || स्त्री (श्रवणेन नक्षत्रेण युक्ता पौर्णमासी । श्रवण + “नक्षत्रेण युक्तः कालः ।” ४ । २ । ३ । इत्यण् । ङीप् ।)
श्रावणमासीयपूर्णिमा । यथा, “पौर्णमासी तथा माघी श्रावणी च नरोत्तम । एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः ॥ इति श्राद्धतत्त्वम् ॥ बृक्षविशेषः । मुण्डी इति थोलकुडिया इति च हिन्दीभाषा । तत्पर्य्यायः । मुण्डितिका २ भिक्षुः ३ श्रवणशीर्षिका ४ श्रवणा ५ प्रव्रजिता ६ परिव्राजी ७ तपोधना ८ । अस्या गुणाः । कषायत्वम् । कटुत्वम् । उष्णत्वम् । कफवाता- मातिसारकासविषच्छर्द्दिनाशित्वञ्च । इति राज- निर्घण्टः ॥ अपि च । “मुण्डी भिक्षुरपि प्रोक्तः श्रावणी च तपोधना । श्रवणाह्ना मुण्डितिका तथा श्रवणशीर्षिका ॥ महाश्रावणिकान्या तु सा स्मृ ता भूकदम्बिका कदम्बपुष्पिका च स्यादव्यथा तु तपस्विनी । मुण्डितिका कटुः पाके वीर्य्योष्णा मधुरा लघुः मेध्या गण्डा पची कृच्छ्रकृमियोन्यर्त्तिपाण्डुनुत ॥ श्लीपदारुच्यपस्मारप्लीहमेदोगुदार्त्तिहृत् । महामुण्डी च तत्तुल्या गुणैरुक्ता महर्षिभिः ॥” इति भावप्रकाशः ॥ अन्यत् मुण्डितिकाशब्दे द्रष्टव्यम् ॥



Correction: