वाचस्पत्यम्
श्रित || त्रि० श्रि—क्त । १ सेविते २ आश्रिते च ।
शब्दकल्पद्रुमः
श्रितः || त्रि (श्रि + क्तः । “श्र्युकः किति ।” ७ । २ । ११ इति इडागमो न ।)
सेवितः । आश्रितः । इति सिद्धान्तकौमुदी ॥ (यथा, रघुः । ११ । ६१ । “भास्करश्च दिशमध्युवास यां तां श्रिताः प्रतिभयं ववाशिरे ॥” पक्वः । यथा, रामायणे । २ । ५६ । २८ । “लक्ष्मणः पुरुषव्याघ्रमथ राघवमब्रवीत् । अयं सर्व्वः समस्ताङ्गः श्रितः कृष्णमृगो मया । देवता देवसङ्काश यजस्व कुशलो ह्यसि ॥”)