वाचस्पत्यम्
श्रीज || पु० श्रियो जायते जन—ड । कामदेवे श्रीनन्दनादयोऽप्यत्र ।
शब्दकल्पद्रुमः
श्रीजः || पुं, (श्रियः जायते इति । जन् + डः ।) कामदेवः । श्रिया जातत्वात् । शाम्बः । इति केचित् ॥