संस्कृत-शब्दकोशः

श्रीमती श्रीमलापहा

श्रीमत्

वाचस्पत्यम्

श्रीमत् ||‍ पु० श्रीरस्त्यंस्य मतुप् । १ तिलवृक्षे अमरः । २ अश्व- त्थवृक्षे राजनि० । ३ विष्णौ शब्दर० । ४ शिवे त्रिका० । ५ कुबेरे शब्दच० । ६ शोभायुक्ते ७ धनिनि च त्रि० स्त्रियां ङीप् । सा च ८ राधिकायां ह्रस्वान्तताऽपि पृषो० राधिकायाम् नारदपञ्चरात्रम् ।


शब्दकल्पद्रुमः

श्रीमान् || [त्] त्रि, (श्री + मतुप् ।)
मनोज्ञः । (यथा, माघे । १ । १ । श्रियः प्रतिः श्रीमति शासितुं जगत् जगन्निवासो वसुदेवसद्मनि । वसन् ददर्शावतरन्तमम्बरात् हिरण्यगर्भाङ्गभुवं मुनिं हरिः ॥”)
धनी । इति मेदिनी ॥ तत्पर्य्यायः । लक्ष्मीवान् २ लक्ष्मणः ३ श्रीलः ४ । इत्यमरः ॥ (यथा, —
“श्रीमन्नाथ भवद्यशोविटपिनः खे तारकाः कोरका- स्तेषामेकतमः पुरा विकशितो यः पूर्णिमा- चन्द्रमाः । तेनेदं शरदिन्दुसुन्दरसुधास्यन्दैर्जगत् मण्डित शेषेष्वेषु विकस्वरेषु भविता कीदृक् न जार्ना महे ॥” इति कालिदासः ॥)


शब्दकल्पद्रुमः

श्रीमान् || [त्] पुं, (श्रीर्विद्यतेऽस्येति । मतुप् ।)
तिलकवृक्षः । इत्यमरः ॥ अश्वत्थवृक्षः । इति राजनिर्घण्टः ॥ विष्णुः । इति शब्दरत्नावली ॥ शिवः । इति त्रिकाण्डशेषः ॥ कुबेरः । इति शब्दमाला ॥



Correction: