संस्कृत-शब्दकोशः

श्रीवत्सभृत् श्रीवत्साङ्क

श्रीवत्सलाञ्छन

वाचस्पत्यम्

श्रीवत्सलाञ्छन ||‍ पु० श्रीवत्सोलाञ्छनं यस्य । विष्णौ अमरः श्रीवत्साङ्कादयोऽप्यत्र ।


शब्दकल्पद्रुमः

श्रीवत्सलाञ्छनः || पुं, विष्णुः । इत्यमरः । १ । १ । २२ ॥ “श्रीवत्सो लाञ्छनं चिह्नं यस्य श्रीवत्सलाञ्छनः । वक्षस्यनन्यमहापुरुषलक्षणं श्वेतरोमावर्त्त- विशेषः श्रीवत्स इति सर्व्वस्वे । श्रीवत्सो हृत्- सङ्गतमणिविशेषः कौस्तुभवदिति कृष्णदासः ।” इत्यरमटीकायां भरतः ॥



Correction: