वाचस्पत्यम्
श्रुत || न० श्रूयते श्रु—क्त । १ शास्त्रे अमरः २ तज्ज्ञाते च “श्रुतान्वितः” इति भट्टिः । ३ श्रवणेन गृहीते त्रि० मेदि० ४ अवधृते
शब्दकल्पद्रुमः
श्रुतं || क्ली (श्रुयते स्म यदिति । श्रु + क्तः ।)
शास्त्रम् । इत्यमरः ॥ (यथा, रघुः । २ । २१ । “श्रुतस्य यायादयमन्तमर्भक- स्तथा परेषां युधि चेति पार्थिवः । अवेक्ष्य धातोर्गमनार्थमर्थवित् चकार नाम्ना रघुमात्मसम्भवम् ॥”)
श्रवणगोचरः । इति शब्दरत्नावली ॥ (यथा, माण्डूक्योपनिषदि । ३ । २ । ३ । “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुधा श्रुतेन ॥” पुं, कालिन्दीगर्भजातः कृष्णस्य पुत्त्रविशेषः । यथा, भागवते । १० । ६१ । १४ । “श्रुतः कविर्वृषो वीरः मुबाहुर्भद्र एकलः । शान्तिर्दर्शः पूर्णमासः कालिन्द्याः सोमको- ऽवरः ॥”)
शब्दकल्पद्रुमः
श्रुतः || त्रि (श्रु + क्तः ।)
अवधृतः । इत्यमरः ॥ आक- र्णितः । इति मेदिनी ॥ (यथा, रघुः । १ । ७८ । “स शापो न त्वया राजन् न च सारथिना श्रुतः ॥”)