संस्कृत-शब्दकोशः

श्रुत श्रुतदेवी

श्रुतकीर्ति

वाचस्पत्यम्

श्रुतकीर्त्ति ||‍ स्त्री १ कुशध्वजकन्यायां शत्रुघ्नपत्न्याम् । श्रुता विख्याता कीर्त्तिरस्य । २ विख्यातयशस्के त्रि० ।


शब्दकल्पद्रुमः

श्रुतकीर्त्तिः || स्त्री (श्रुता कीर्त्तिर्यस्याः ।)
जनक- भ्रातृकुशध्वजराजकन्या । सा शत्रुघ्नपत्नी । यथा “शत्रुघ्नञ्चापि धर्म्मात्मा अब्रवीन्मिथिलेश्वरः । श्रुतकीर्त्तेर्महाबाहो पाणिं गृह्णीष्व पाणिना ॥” इति वाल्मीकीये रामायणे बालकाण्डे ७३ सर्गः ॥ अपि च । “एवं भवत् भद्रं ते कुशध्वजसुते इमे । पत्न्यौ भजेतां सहितौ शत्रु घ्नभरतावुभौ ॥ इति तत्रैव ७२ सर्गः ॥ देवर्षौ, पुं, । (द्रौपदीगर्भजाते अर्ज्जुनस्य पुत्त्रे च पुं । यथा, महाभारते । १ । ६३ । १२० । “अर्ज्जुनात् श्रुतकीर्त्तिश्च शतानीकश्च नाकुलिः ॥”)
कीर्त्तियुक्ते, त्रि । इति केचित् ॥



Correction: