शब्दकल्पद्रुमः
श्रुतार्थः || पुं, (श्रुतोऽर्थः ।)
शाब्दबोधविषयी- भूतार्थः । श्रवणमात्रबोध्योऽर्थः । यथा, —
“श्रुतार्थस्य परित्यागादश्रुतार्थस्य कल्पनात् । प्राप्तस्य वाधादित्येवं परिसङ्ख्या त्रिदोषिका ॥” इति प्रायश्चित्ततत्त्वम् ॥ (त्रि, श्रुतोऽर्थो येन सः । यथा, हरिवंशे । ११५ । २७ । “श्रुतार्थो देव गुह्यस्य भवान् यत्र वयं स्थिताः ॥”)