वाचस्पत्यम्
श्रुति || स्त्री श्रु—कर्मादौ क्तिन् । १ वेदे वेदस्य सर्वैः श्रूयमाणत्वात् श्रुतित्वम् । २ कर्णे कर्णस्य श्रवणहेतुत्वात् तघात्वम् । ३ श्रवणेन्द्रियजन्ये ज्ञाने च । अङ्कशास्रोक्ते त्रिभुजक्षे- त्रादौ भुजकोट्योः संयुज्यमाने ४ रेस्वाभेदे च लीला० । क- र्णस्य शुभाशुभत्वं यथा “रक्ताम्लपरुषश्मश्रुकर्णाः स्युः पा- पमृत्यवः । निर्मांसचिपिटैर्मोगाः कृपणा ह्रस्वकर्णकाः । शङ्कुकर्णाश्च राजानो रोमकर्णाः शतायुषः । वृहत्कर्णाश्च राजानो धनिनः परिकीर्त्तिताः” गरुडपु० ६६ अ० । ५ श्रवणक्रियायां ६ वार्त्तायां मेदि० । ७ श्रवणनक्षत्रे श- ब्दर० । ८ षड्जरागाद्यारम्भकावयवे शब्दभेदे मल्लिना० “प्रथम श्रवणाच्छब्दः श्रूयते ह्रस्वमात्रकः । सा श्रुतिः सम्परिज्ञेया स्वरावयवलक्षणेति” । श्रुतिसंख्यानियमश्रुतत्र दर्शितः “चतुयतुश्चतुश्चैव षड्जमध्यमपञ्चमाः । द्वे द्वे निषादगान्धारौ त्रिस्त्रिरृषभधैवतौः” । तद्भेदास्तु “नान्दी चालानकारिसा च सुमुखी चित्रा विचित्रा घना मातङ्गी सरसामृता मधुकरी मैत्री शिवा माधवी । बाला शार्ङ्ग- रवी कला कलरवा माला विशाला जया मात्रेति श्रुतयः पुराणकविभिर्द्वाविंशतिः कीर्त्तिताः” । “श्रतिस्थाने स्वरान वक्तु नालं ब्रह्माऽपि तत्त्वतः । जले च सुतरां मार्गो मीनानां नोपलक्ष्यते । गगने पक्षिणां यद्वत् तद्वत् स्वरगता श्रुतिः । श्रुतिर्नादवशा प्रोक्ता तथाढ्या च कला मता । यथा तैल्गत सर्पिर्यथा काष्ठगतोऽनलः । ज्ञायतेऽत्रोपदेशेन तथा स्वरगता श्रुतिः । वीणादेस्तु श्रुतिर्ज्ञानं स्वरज्ञानं तु वंशजमं” संगीतदा० । संगीतरत्नाकरे न षड्जादिभेदे अन्यविधाः श्रुतय उक्ता यथा “तीव्रा कुमुद्वती मन्दा छन्दोवत्यस्तु षड्जगाः । दयावती रञ्जनी च रतिका ऋषभे स्थिता । रौद्री क्रोधा च गान्धारे वज्रिका च प्रसारिणी । प्रीतिश्च मार्जनीत्येताः श्रुतयो मध्यमाश्रिताः । क्षितिरक्ता च सान्दीपिन्यालापी चैव पञ्चमे । मदन्ती रोहिणी रम्येत्येता धैवतसश्रुयाः । उग्रा च क्षोभिणीति द्वे निषादे वसतः श्रुती” ।
शब्दकल्पद्रुमः
श्रुतिः || स्त्री (श्रूयतेऽनयेति । श्रु + “श्रुयजिस्तुभ्यः करणे ।” ३ । ३ । ९४ । इत्यस्य वार्त्तिकोक्त्या करणे ।” क्तिन् ।)
वेदः । (यथा, मनुः । २ । १० । “श्रुतिस्तु वेदो विज्ञेयो धर्म्मशास्त्रन्तु वै स्मृतिः ॥”)
कर्णः । इत्यमरः ॥ (यथा, भागवते । ९ । ४ । १८ । “करौ हरेर्मन्दिरमार्ज्जनादिषु श्रुतिं चकाराच्यु तसत्कथोदये ॥”)
गर्भस्थस्य पञ्चमासैः श्रुतिर्भवति । इति सुख- बोधः ॥ श्रुतोन्द्रियग्राह्यः शब्दः शब्दत्वादिः । यथा, —
“घ्राणस्य नोचरो गन्धो गन्धत्वादिरपि स्मृतः । तथा रसो रसज्ञायास्तथा शब्दोऽपि च श्रुतेः ॥” इति भाषापरिच्छेद ॥ कर्णस्य शुभाशुभलक्षणमाह । “रक्ताल्पपरुषश्मश्रुकर्णाः स्युः पापमृत्यवः । निर्म्मांसैश्चिपिटैर्भोगाः कृपणा ह्रस्वकर्णका । शङ्कुकर्णाश्च राजानो रोमकर्णाः शतायुषः । बृहत्कर्णाश्च राजानो धनिनः परिकीर्त्तिताः ॥” इति गारुडे ६६ अध्यायः ॥ (श्रु + भावे क्तिन् ।)
श्रोत्रकर्म्म । (यथा, भाग- वते । ९ । ५ । १६ । “यन्नामश्रुतिमात्रेण पुमान् भवति निर्म्मलः तस्य तीर्थपदः किंवा दासानामवशिष्यते ॥”)
वार्त्ता । इति मेदिनी ॥ (यथा, रघुः । १ । २७ । “व्यावृत्ता यत्परस्वे भ्यः श्रुतौ तस्करता स्थिता ॥”)
श्रवणानक्षत्रम् । इति शब्दरत्नावली ॥ षड्- जाद्यारम्भिका । इति हेमचन्द्रः ॥ शोरत् इति भाषा । (यथा, शिशुपालवधे । १ । १० । “रणद्भिराघट्टनया नभस्वतः पृथक्विभिन्नश्रुतिमण्डलैः स्वरैः ॥)
सा च द्वाविंशतिप्रकारा यथा, —
“नान्दी चालनिका रसा च सुमुखी चित्रा विचित्रा घना मातङ्गी सरसामृता मधुकरी मैत्री शिवा माधवी । बाला शार्ङ्गरवी कला कलरवा माला विशाला जया मात्रेति श्रुतयः पुराणकविभिर्द्वाविंशतिः कीर्त्तिताः ॥ नान्दी-विशाला-सुमुखी-विचित्रासम्भवः सदा । षड्जो मतो मुनीन्द्रेण भरतेन शिवेन च ॥ चित्रा घना चालनिका निवेशात् संजायतेऽसौ ऋषभस्तथैव । स्वरोऽपि माला सरसानिवेशात् गान्धारनामा प्रथितः पृथिव्याम् ॥ मातङ्गी माधवी मैत्री शिवाजातस्तु पञ्चमः । कला कलरवा बाला शार्ङ्गरव्यास्तु पञ्चमः ॥ जायामृतारसानान्तु संयोगाद्धैवतस्वरः । मात्रा मधुकरी योगात् निषादः संप्रजायते ॥ श्रुतिस्थाने स्वरान् वक्तुं नालं ब्रह्मापि तत्त्वतः जले च सुतरां मार्गो मीनानां नोपलक्ष्यते ॥ गगने पक्षिणां यद्वत् तद्वत् स्वरगता श्रुतिः । श्रुतिर्नादवशा प्रोक्ता तथाढ्या च कला मता । यथा तैलगतं सर्पिर्यथा काष्ठगतोऽनलः । ज्ञायतेऽत्रोपदेशेन यथा स्वरगता श्रुतिः ॥ वीणादेस्तु श्रुतिज्ञानं स्वरज्ञानन्तु वंशजम् । अश्विनौ वसवो रुद्राः सहैणाङ्केन शुश्रुवुः । प्रशशंसुर्हरेर्नादमतो द्वाविंशतिः श्रुतिः ॥” इति सङ्गीतदामोदरः । अन्यच्च । “तीव्राकुमुद्वतीमन्दाछन्दोवत्यस्तु षड्जगाः । दयावती रञ्जनी च रतिका ऋषभे स्थिताः ॥ रीद्री क्रोधा च गान्धारे वज्जिकाथ प्रसा- रिणी । प्रोतिश्च मार्ज्जनीत्येताः श्रुतयो मध्यमाश्रिताः ॥ क्षिती रक्ता च सन्दीपन्यालापिन्यपि पञ्चमे । मदन्ती रोहिणी रम्येत्येता धैवतसंश्रयाः । उग्रा च क्षोभिणीति द्वे निषादे वसतः श्रुती ॥” इति सङ्गीतरत्नाकरः ॥