वाचस्पत्यम्
श्रुतिकट || पुंस्त्री० श्रुतिं कर्णं कटति कट—अच् । १ सर्पे तस्य गुप्तकर्णत्वात् तथात्वम् स्त्रियां ङीष् । २ प्राञ्चल्लोहे ३ पापशोधने च पु० मेदि० ।
शब्दकल्पद्रुमः
श्रुतिकटः || पुं, (श्रुतिं कटतीति । कट् + अच् ।)
प्राञ्चल्लोहः । अहिः । पापशोधनम् । इति मेदिनी ॥