संस्कृत-शब्दकोशः

श्रुतिकट श्रुतिकथित

श्रुतिकटु

वाचस्पत्यम्

श्रुतिकटु ||‍ पु० श्रुतौ श्रवणे कटुः कठोरा । अलङ्कारोक्ते कठो- रशब्दविशेषरूपे १ काव्यदोषभेदे २ कठोरशब्दे च ।


शब्दकल्पद्रुमः

श्रुतिकटुः || पुं, (श्रुतौ कटुः ।)
कठोरशब्दः । अलङ्कारस्य दोषविशेषः । यथा, —
“श्रुतिकटुश्च्यतसंस्कृतिरक्रमोक्त्यनृचिताकवि- जुष्टविमन्धिकाः ।” उदाहरणम् । “वाचा मधुरया तन्वि स्मितापाङ्गतरङ्गया । मनाग्वदनमुत्तोल्य कार्त्तार्थ्यं कुरु मादृशाम् ॥” इति काव्यचन्द्रिका ॥



Correction: