संस्कृत-शब्दकोशः

श्रेढीव्यवहार श्रेणिक

श्रेणि

वाचस्पत्यम्

श्रेणि(णी) ||‍ स्त्री श्रि—णि वा ङीप् । विच्छेदरहितायां पङक्तौ अमरः ।


शब्दकल्पद्रुमः

श्रेणिः || पुं, स्त्री, (श्रयति श्रीयते वा । श्रि + “वर्हिश्रिश्रुयुद्विति ।” उणा० ४ । ५१ । इति णिः ।)
निश्छिद्रपंक्तिः । तत्पर्य्यायः । पंक्तिः २ श्रेणी ३ विञ्जोली ४ वीथी ५ आलिः ६ पालिः ७ आवलिः ८ आली ९ पाली १० आवली ११ वीथिः १२ वीथिका १३ राजी १४ राजिः १५ रेखा १६ लेखा १७ । इति शब्द- रत्नावली ॥ (यथा, कुमारे । ५ । ९ । “न षट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते ॥”)
समानशिल्पिसंहतिः । इति मेदिनी ॥ कोम्पानि इति इङ्गरेजीयभाषा ॥ सेकपात्रम् । इति विश्वः ॥



Correction: