वाचस्पत्यम्
श्रेणी is an alternate of श्रेणि. श्रेणि(णी) || स्त्री श्रि—णि वा ङीप् । विच्छेदरहितायां पङक्तौ अमरः ।
शब्दकल्पद्रुमः
श्रेणी || स्त्री (श्रेणि + कृदिकारादिति ङीष् ।)
श्रेणिः । इति शब्दरत्नावली ॥ (यथा, रघुः । १ । ४१ । “श्रेणीबन्धात् वितन्वद्भिरस्तम्भां तोरणस्रजम् । सारसैः कलनिर्ह्रादैः कचिदुन्नमिताननौ ॥”