वाचस्पत्यम्
श्लथ || दौर्वल्ये अद० चु० अक० सेट् । श्लथयति ते अशश्लथत् त
वाचस्पत्यम्
श्लथ || पु० श्लथ—अच् । १ विरलसंयोगे शिथिवे जटा० २ दुर्बले च
शब्दकल्पद्रुमः
श्लथ || त् क दीर्ब्बल्ये । इति कविकल्पद्रुमः ॥ (अदन्तचुरा०-पर०-अक०-सेट् ।)
अन्तस्थः- तृतीययुक्तादिः । क, श्लथयति । इति दुर्गा- दासः ॥
शब्दकल्पद्रुमः
श्लथ || त्रि (श्लथयतीति । श्लथ + अच् ।)
शिथिलः ॥ यथा । “शिथिलः प्रश्लथः श्लथः ।” इति लटा- धरः ॥ (यथा, माघे । ७ । ६२ ।] “श्लथशिरसिजपातभारा- दिव नितरां नतिमद्भिरंसभागैः ॥”)
दुर्ब्बलः । इति श्लथधात्वर्थदर्शनात् ॥