वाचस्पत्यम्
श्लिष्ट || त्रि० श्लिष—क्त । १ आलिङ्गिते २ संसृष्टे ३ श्लेषरूपशब्दा- लङ्कारयुक्ते शब्दे च ।
शब्दकल्पद्रुमः
श्लिष्टः || त्रि (श्लिष + क्तः ।)
श्लेषयुक्तशब्दादिः । भिन्नार्थकैकरूपान्वितवाक्यम् । तस्य लक्षणं यथा, —
“श्लिष्टमिष्टमविस्पष्टमेकरूपान्वितं वचः ।” इति सरस्वतीकण्ठाभरणम् ॥