वाचस्पत्यम्
श्लेष्मघ्ना || स्त्री श्लेष्माणं हन्ति हन—क टाप् । १ मल्लिकायां २ केतक्याञ्च विश्वः । ३ ज्योतिष्मत्यां जटा० ङीप् । सा च ४मल्लिकायां मेदि० ५ त्रिकटुनि शब्दच० ।
शब्दकल्पद्रुमः
श्लेष्मघ्ना || स्त्री (श्लेष्माणं हन्तीति । हन + टक् अभिधानात् टाप् ।)
मल्लिका । केतकौ । इति विश्वमेदिन्यौ ॥ श्लेष्मनाशके, त्रि ॥ श्लेष्मघ्नी, स्त्री, (श्लेष्माणं हन्तीति । हन + टक् )
टित्वात् ङीष् ।)
ज्योतिष्मती । इति जटा- धरः ॥ मल्लिका । इति मेदिनी ॥ त्रिकटुः । इति शब्दरत्नावली ॥