संस्कृत-शब्दकोशः

श्लेष्मातक श्लेष्मिक

श्लेष्मान्तक

वाचस्पत्यम्

श्लेष्मान्तक ||‍ पु० श्लेष्मणा स्तसेवनजकफेन अन्तक इव नाशकत्वात् (वहुयार) वृक्षभेदे राजनि० ।


शब्दकल्पद्रुमः

श्लेष्मान्तकः || पुं, (श्लेष्मणा स्वसेवनजनितकफेन अन्तयति नाशयतीति । अन्त + णिच + ण्वुल ।)
वृक्षविशेषः । वहुयार इति वङ्गभाषा । लसोडा इति हिन्दी भाषा । तत्पर्य्यायः । बहुवारः २ पिच्छिलः ३ द्विजकुत्सितः ४ शेलुः ५ शीत- फलः ६ शोतः ७ शाकटः ८ कर्व्वुदारकः ९ भूतद्रुमः १० गन्धपुष्पः ११ । अस्य गुणाः । कटुत्वम् । हिमत्वम् मधुरत्वम् । कषायत्वम् । स्वादुत्वम् । पाचनत्वम् कृमिशूलहरत्वम् । आमास्रदोषमलरोधबहुव्रणार्त्तिविस्फोटशान्ति- करत्वम् । कफकारकत्वञ्च । इति राजनिर्घण्टः ॥ अस्यामफलगुणाः । विष्टम्भित्वम् । रूक्षत्वम् । पित्तकफास्रनाशित्वञ्च । तत्पक्वफलगुणाः । मधु- रत्वम् । स्निग्धत्वम् । श्लेष्मत्वम् । शीतलत्वम् । गुरुत्वञ्च । इति भावप्रकाशः ॥



Correction: