शब्दकल्पद्रुमः
श्लेष्मिकं || त्रि (श्लेष्मणः शमनं कोपनं वा । श्लेष्मन् + “वातपित्तश्लेष्मभ्यः शमनकोपनयोः ।” ५ । १ । ३८ । इत्यस्य वार्त्तिकोक्त्या ठञ् । कफशमनम् । कफकोपनम् । इति व्याकरणम् ॥)
श्लेष्मोद्भवम् । श्लेष्ममम्बन्धोयम् । इति श्लेष्म- शब्दात् ष्णिकप्रत्ययेन निष्पन्नम् ॥ (यथा, सुश्रुते । १ । ३ । “चिकित्साप्रविभागीये वाताभिष्यन्दवराणः । पेत्तिकस्य श्लैष्मिकस्य रौधिरस्य तथैव च ॥”)