वाचस्पत्यम्
श्लोक || पु० श्लोक—अच् । चतुःपदात्मके कविकृते १ वाक्यभेदे २ य- शसि च अमरः “क उत्तमश्लोकगुणानुवादात्” भाग० १ । १
वाचस्पत्यम्
श्लोक || वर्द्धने संघाते च भ्वा० आ० म० सेट् ऋदित् चङि न ह्रस्वः । श्लोकते अश्लोकिष्ट ।
शब्दकल्पद्रुमः
श्लोक || ऋ ङ संघाते । वर्ज्जने । सर्ज्जने । इति कवि- कल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-सक०-च-सेट् । मघात इह छन्दोविशिष्टवाक्यरचनम् । ऋ, अशश्लोकत् । ङ, श्लोकते कविः । इति दुर्गा- दासः ॥
शब्दकल्पद्रुमः
श्लोकः || पुं, (श्लोक्यते इति । श्लोकसंघाते + घञ् ।)
पद्यम् । यशः । इत्यमरः ॥ * ॥
(वाक् । इति निघण्टुः । १ । ११ ॥ “श्रुश्रवणे ‘इण् भीका- पाशल्यतिमचिभ्यः कन्’ इति कन्प्रत्ययो वाहुलकाद्भवति गुणः कविलकादित्वाल्लत्वम् । श्रूयते इति श्लोकः । यद्वा श्लोक संघाते ‘पुंसि सज्ञायां घः ।’ श्लोक्यते पद्यते रूपेण संहन्यते कविभिः श्लोकः ।” इति तट्टीका ॥)
श्लोकनाम कारणम् । यथा, —
“मा निपाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । वत्क्रौञ्चमिथुनादेकमवधोः काममोहितम् ॥ तस्येन्थं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः । गोकार्त्तेनास्य शकुनेः किमिदं व्याहृतं मया ॥ चिन्तयन् स महाप्राज्ञश्चकार मतिमान् मतिम् । शिष्यञ्जैवाब्रवीद्वाक्यमिदं स मुनिपुङ्गवः ॥ पादबन्धोऽक्षरसमस्तन्त्रीलयसमन्वितः । गोकार्त्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥” इति रामायणे वाल्मीकीये बालकाण्डे २ स्वर्गः ॥