वाचस्पत्यम्
श्वपच || पुंस्त्री० श्वानं पचति भोजनाय पच—अच् । श्वपाके जातिभेदे । स च अन्त्यावसायिसज्ञः “चण्डालः श्रपचः क्षत्ता सूती वैदेहकस्तथा । मागधायोगवौ चैव सप्तौतेऽन्त्यावसायिनः । अन्त्यावसायिनामन्नमश्नीयाद् यस्तु कामतः । स तु चान्द्रायणं कुर्य्यात् तप्रघृच्छमथापि वा” प्रा० त० अङ्गिराः ।
शब्दकल्पद्रुमः
श्वपचः || पुं, (श्वानं पचतीति । पच + अच् ।)
चण्डालः । इत्यमरः ॥ तस्य संज्ञा अन्त्याव- सायी । तस्य धर्म्मो यथा, —
“चण्डालश्वपचानान्तु बहिर्ग्रामात् प्रतिश्रयः । अपपात्राश्च कर्त्तव्या धनं येषां श्वगर्द्दभम् ॥ वासांसि मृतचेलानि भिन्नभाण्डेषु भोजनम् । कार्ष्णायः समलङ्कारः परिव्रज्या च नित्यशः ॥ न तैः समयमन्विच्छेत् पुरुषो धर्म्ममाचरन् । व्यवहारो मिथस्तेषां विवाहः सदृशैः सह ॥ अन्नं येषां पराधीनं देयं स्याद्भिन्नभाजने । रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च ॥ दिवा चरेयुः कार्य्यार्थं चिह्निता राजशासनैः । अबान्धवं शवञ्चैव निर्हरेयुरिति स्थितिः ॥ बध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया । वध्यवासांसि गृह्णीयुः शय्याश्चाभरणानि च ॥ * । चाण्डालः श्वपचः क्षत्ता मृतो वैदेहकस्तथा । मागधायोगवौ चैव सप्तैतेऽन्त्यावसयिनः ॥” तस्यान्नभक्षणे प्रायश्चित्तं यथा, —
“अन्त्यावसायिनामन्नमश्नीयाद्यस्तु कामतः । स तु चान्द्रायणं कुर्य्यात् तप्तकृच्छमथापि वा ॥” इति प्रायश्चित्ततत्त्वधृताङ्गिरोवचनम् ॥