संस्कृत-शब्दकोशः

श्वल्ल श्वव्याघ्र

श्ववृत्ति

वाचस्पत्यम्

श्ववृत्ति ||‍ स्त्री शुन इव पराधीना वृत्तिः । दास्ये “सैवा श्ववृ- “त्तराख्याता तस्यात्तां परिवर्जयेत्” मनुः । “दीनदृष्टि- सन्दर्शनस्वामितर्जननीचक्रियादिधर्मयोगात् श्वतुल्यासिति” कुल्लू० “न श्ववृत्त्या कदाचन” मनुः ।


शब्दकल्पद्रुमः

श्ववृत्तिः || स्त्री (शुनः कुक्कुरस्येव पराधोना वृत्तिः । सवा । इत्यमरः ॥ चाक्री इति भाषा । शुन इव वृत्तिः परपिण्डोपजीवनात् । इति भरतः ॥ अपि च । “सत्यानृतन्तु वाणिज्यं तेन चैवापि जीव्यते । सेवा श्ववृत्तिराख्याता तस्मात्ता परिवर्जयेत् ॥” इति मानवे ४ अध्याये ६ श्लोकः ॥ “सेवा तु दीनदृष्टिसन्दर्शनस्वामितर्ज्जननीच- क्रियादिधर्म्मयोगात् शुन इव वृत्तिरतः श्ववृत्ति- रुक्ता तस्मात्तां प्रकृतो ब्राह्मणस्त्यजेत् ।” इति कुल्लूकभट्टः ॥



Correction: