वाचस्पत्यम्
श्वव्याघ्र || पु० शुनो व्याघ्रः । कुक्कुरघातके व्याध्रभेदे (चिते) जटा० ।
शब्दकल्पद्रुमः
श्वव्याघ्रः || पुं, (शुनो व्याघ्रः ।)
हिंस्रपशुः । यथा, “शार्दून्तः पुण्डरीकश्च द्वीपी चाथ सृगादनः । श्वव्याघ्रश्च तरक्षुश्च व्याडश्च श्वापदः समौ ॥” इति जटाधरः ॥