वाचस्पत्यम्
श्वशुर || पु० शु आशु अश्नुते आशु + अश—उरच् पृषो० । १ पत्युः पितरि २ भार्य्यायाः पितरि च अमरः ।
शब्दकल्पद्रुमः
श्वशुरः || पुं, (शु आशु अश्यते व्याप्यते इति । अश + “शावशेराप्तौ ।” उणा० १ । ४५ । इति उरन् । “शुशब्दोऽत्राशुशब्दाभिधायी । आशु व्याप्तव्यः श्वशुर इति धातुपारायणम् ।” इति तट्टीकायां उज्ज्वलदत्तः ॥)
पतिपत्न्योः पिता । इत्यमरः ॥ (यथा, —
“मसारे खलु संसार सारः श्वशुरमन्दिरम् । हिमालये हरः शेते हरिः शेते महोदधौ ॥” इत्युद्भटः ॥)
पूज्यः । इति मेदिनी ॥