संस्कृत-शब्दकोशः

श्वश्रूश्वशुरौ श्वस

श्वःश्रेयस

वाचस्पत्यम्

श्वःश्रेयस ||‍ न० श्वः परदिने भाविकाले श्रेयो यस्मात् अच् समा० । १ मङ्गले अमरः २ सुखे ३ परमात्मनि च मेदि० । ४ कल्याणयुक्ते त्रि० ।


शब्दकल्पद्रुमः

श्वःश्रेयसं || क्ली (श्वः आगामिकाले श्रेयो यत्र । “श्वसी वसीयःश्रेयसः ।” ५ । ४ । ८० । इति अच् ।)
कल्याणम् । इत्यमरः ॥ (यथा, भट्टिः । ४ । ३८ । “श्वःश्रेयसमवाप्तासि भ्रातृभ्यां प्रत्यभाणि सा ॥”)
परमात्मा । शर्म्म । इति मेदिनी ॥ कल्याण- युक्ते, त्रि ॥



Correction: