वाचस्पत्यम्
श्वसनाशन || पुं स्त्री० श्वसनोवायुरशनमस्य । सर्पे हारा० । स्त्रियां ङीष्
शब्दकल्पद्रुमः
श्वसनाशनः || पुं, (श्वसनो वायुरशनं भक्ष्यं यस्य । सर्पः । इति हारावली ॥ (यथा, राजतर- ङ्गिण्याम् । १ । २२५ । “जगाद तं द्विजन्मानं निश्वस्य श्वसनाशनः ॥”)