वाचस्पत्यम्
श्वसन || पु० श्वसित्यनेन श्वस—ल्युट् । १ वायौ २ मदनवृक्षे च अमरः । भावे ल्युट् । ३ निश्वामे न० मेदि० ।
शब्दकल्पद्रुमः
श्वसनं || क्ली (श्वस + ल्युट् ।)
श्वसितम् । निश्वासः । इति मेदिनी ॥ (यथा, किराते । १० । ३४ । “श्वसनचलितपल्लवाधरोष्ठे नवनिहितेर्ष्यमिवावधूनयन्ती ॥” * ॥
स्पर्शनम् । इति श्रीधरस्वामी ॥ यथा, भागवते २ । २ । २९ । “ध्राणेन गन्धं रमनेन वै रसं रूपञ्च दृष्ट्या श्वसनं त्वचैव ॥”)
शब्दकल्पद्रुमः
श्वसनः || पुं, श्वसितीति । श्वस + ल्युः ।)
वायुः । (यथा, बृहत्संहितायाम् । ३४ । २ । “इन्द्रयमवरुणनिरृति- श्वमनेशपितामहाग्निकृताः ॥”)
मदनवृक्षः । इत्यमरः ॥