संस्कृत-शब्दकोशः

श्वानी श्वाविद्

श्वापद

वाचस्पत्यम्

श्वापद ||‍ पु० शुन इवापदस्मात् अचसमा० । १ हिंसपशौ हेमच० २ व्याघ्रे च शब्दर० ।


शब्दकल्पद्रुमः

श्वापदः || पुं, (शुन इव पदं यस्य । “शुनो दन्त- दंष्ट्राकर्णकुन्दवराहपुच्छपदेषु ।” ६ । ४ । १३७ । इत्यस्य वार्त्तिकोक्त्या दीर्घः ।)
हिंस्रपशुः । इति हेमचाद्रः ॥ (यथा, विष्णुपुराणे । १ । ५ । ५१ । “श्वापदो द्विखुरो हस्ती वानरः पक्षिपञ्चमः । औदकाः पशवः षष्ठाः सप्तमास्तु सरीसृपाः ॥”)
व्याघः । इति शब्दरत्नावली ॥



Correction: