शब्दकल्पद्रुमः
श्वाविद् || (ध्) पुं, (श्वानं विध्यतीति । व्यध + क्विप् । “नहिवृताति ।” ६ । ३ । ११६ । इति दीर्घः ।) शल्यः । इत्यमरः ॥ सजारु इति भाषा ॥